SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्म-हस्त-मुखाः कृतात् ॥६॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । प्रकर्षेण वयिते गम्यते प्रवीणः "घृवीह्वा -” ॥ ( उणा - १८३ ) ॥ इति णक्तत्रं ॥ १ ॥ शिक्षा संजाता अस्य शिक्षितः, शिक्षते इति वा ॥ २ ॥ निष्णाति स्म निष्णातः, निष्णातेर्मुख्यार्थ परित्यज्य निपुणे रूढः " निनद्याः स्नातेः कौशले” ॥२॥३ ॥२०॥ इति षत्वम् ॥ ॥ नियतं पुणति शोभनकर्मत्वाद् निपुणः ॥ ४ ॥ दक्षते दक्षः ॥ ५ ॥ कृतशब्दात् पराः कर्महस्तमुखाः, तेन कृतं कर्माऽनेन कृतकर्मा, यौगिकत्वात् कृतकृत्यः, कृतार्थः, कृती च कृतो वशीकृतो हस्तोऽनेन कृतहस्तः, कृतं संस्कृतं मुखमस्य कृतमुखः ॥ ६ ॥ ७ ॥ ८ ॥ ६ ॥ कुशान् लाति कुशलः, ते हि व्युत्पन्नैरादातुं शक्याः; कुश्यति इति वा “तृपिवपि " ॥ ( उणा-४६८)॥ इत्यलक् ॥९॥ चतते कर्म इति चतुरः “वाश्यसि - " ॥ ( उणा - ४२३) ॥ इत्युरः, चत्वारः पुमर्थाः सन्त्यस्येति वा अभ्रादित्वाद् अः ॥ १० ॥ अभिजानाति अभिज्ञः ॥ ११ ॥ विजानाति विज्ञः ॥ १२ ॥ विज्ञानं प्रयोजनमस्य वैज्ञानिकः ॥ १३ ॥ पटति दाक्ष्यं पटुः “भृमृतॄत्सरि-” ॥ (उणा-७१६) ॥ इत्युः ॥१४॥ शेषश्चात्र १४२ अथ प्रवीणे क्षेत्रज्ञो नदीष्णो निष्ण इत्यपि ॥ छेको विदग्धे छयति छिनत्ति मूर्खदुष्टाचत्तानि इति छेकः "निष्कतुरुष्क- " ॥ ( उणा - २६ ॥ इति कान्तो निपात्यते ॥ १ ॥ विशेषेण मूर्खचित्तं दहति विदग्धः तत्र ॥ २ ॥ शेषश्चात्र छेकालच्छेकिलौ छेके ॥ छइल्लो देश्याम् ॥ प्रौढस्तु प्रगल्भः प्रतिभान्वितः ॥ ७ ॥ प्रो स्म प्रौढः ॥ ॥ प्रगल्भते प्रगल्भः ॥ २ ॥ प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा तयाऽन्वितः प्रतिभान्वितः ॥ ३ ॥ ७ ॥ कुशाग्रीयमतिः सूक्ष्मदर्शी कुशाग्रस्य तुल्या तीक्ष्णत्वात् कुशाग्रीया " कुशाप्रादीयः " ॥७।१।११६॥ इति ईयः, कुशाग्रीया मतिरस्य कुशाग्रीयमतिः ॥ १ ॥ सूक्ष्मं पश्यतीत्येवंशीलः सूक्ष्मदर्शी ॥ २ ॥ तत्कालधीः ः पुनः ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy