________________
१४०
अभिधानचिन्तामणौ
शिशुत्वं शैशवं बाल्यं शिशोर्भावः शिशुत्वं, शैशवं “म्वृवर्णात्.” ॥ ७ । १ ! ६९ ॥ इत्यग् ॥१॥ २ ॥ बालस्य भावः कर्म वा बाल्यं, राजादित्वाद् ट्यग् ॥ ३ ॥
___ वयःस्थस्तरुणो युवा ।
वयसि यौवने तिष्ठतीति वयःस्थः ॥१॥ तरति कौमारं तरुणः “यम्यजि." ॥ ( उणा--२८८ ) ॥ इत्युनः ॥२॥ यौति मिश्रीभवति स्त्रिया युवा, “लूयूयुवृषि-" ॥ ( उणा--९०१) इति कन् ॥ ३ ॥
तारुण्यं यौवनं तरुणस्य भावः कर्म वा तारुण्यम् ॥ १॥ यूनो भावो यौवनम् , पुंक्लीवलिङ्गः, "युवादेः-" ॥ ७ । १ । ६७ ॥ इत्यण् , यौवनिकाऽपि ॥ २ ॥
वृद्धः प्रवयाः स्थविरो जरन् ॥ ३ ॥
जरी जीर्णो यातयामो जीनः वर्धते वृद्धः, शील्यादित्वात् क्तः ॥ १॥ प्रगतं वयो यौवनमस्य प्रवयाः ॥ २ ॥ यौवनमतिक्रम्य तिष्ठति स्थविरः " स्थविरपिठिर-” ॥ ( उणा--४१७ ) ॥ इतीरान्तो निपात्यते ॥ ३ ॥ जीर्यति स्म जरन् “जृषोऽतृः" ।। ५ । १ । १७३ ॥ इत्यतः ॥ ४ ॥ ३ ॥ जराऽस्त्यात्य जरी, शिखादित्वादिन् ॥ ५ ॥ जीर्यति स्म जीर्णः ॥ ६ ॥ याता यामा अस्य यातयामः ॥७॥ जिनाति स्म जीनः, क्ते “ ज्याव्यधः क्ङिति' ॥ ४ । १ । ८१ ॥ इति यति " दीर्घमवोऽन्त्यम्” ॥ ४ । १ । १०३ ॥ इति दीर्घत्वे “ ऋल्वादेरेषां तो नोऽप्रः ” ॥ ४ । २ । ६८ ॥ इति नत्वम् ॥ ८ ॥
अथ विस्रसा जरा । . विस्रंसते अनयाऽहं विस्रसा, भिदादित्वादङ्॥१॥ जीर्यतेऽनया जरा “षितो. ऽ” ॥ ५ । ३ । १०७ ॥ इत्यङि " ऋवर्णदृशोऽडि-" ॥ ४ । ३ । ७ ॥ इति गुणः ॥ २॥
वार्धकं स्थाविरं वृद्धस्य भावः कर्म वा वार्धकं, चोरादित्वादकञ् ॥ १ ॥ स्थविरस्य भावः कर्म वा स्थाविरं, युवादित्वादण् ॥ २ ॥
ज्यायान् वर्षीयान् दशमीत्यपि ॥ ४ ॥ _अतिशयेन वृद्धो ज्यायान् “ ज्यायान्” ॥ ७ । ४ । ३६ ॥ इति साधुः ॥१॥" प्रियस्थिर-” ॥ ७ । ४ । ३८ ॥ इति वर्षादेशे तु वर्षीयान् ।। २ ।।..