SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३८ अभिधानचिन्तामणौ अत्ता मातेव अतिका ॥१॥ भर्ताऽऽर्यपुत्रः भर्ता पतिरार्यस्य पुत्र आर्यपुत्रः ॥ १ ॥ माताऽम्बा अमति वात्सल्यं गच्छति अम्बा " शम्यमेर्णिद्वा - " ॥ ( उणा - ३१८ ) ॥ इति बः, अम्बते अपत्यं जल्पतीति वा ॥ १ ॥ भदन्ताः सौगतादयः ॥ २४९॥ सौगत आदिरेषां सौगतादयः आदिशब्दाद् निर्ग्रन्थादयः भन्दन्ते कल्याणिनो भवन्ति भदन्ताः “ सीमन्तहेमन्तभदन्तदुष्वन्तादयः " ॥ ( उणा - २२२ ) ॥ इति साधुः ॥ १ ॥ २४९ ॥ पूज्ये तत्रभवानत्रभवांश्च भगवानपि । "" स भवान् तत्रभवान् “त्रप् च ॥ ७ । २ । ९२ ॥ इति सर्वादित्वात् त्रप् ॥ २ ॥ एवमेष भवान् अत्रभवान् ॥ ३ ॥ भगो ज्ञानमस्यास्ति भगवान् ॥४॥ पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः ॥ २५० ॥ यथा गुरुपादाः, अर्हद्भट्टारकः, कुमारपालदेवः । शेषश्चात्र पूज्ये भरटको भट्टः प्रयोज्यः पूज्यनामतः । आबुकादयो नाट्य प्रस्तावाद्ं नाट्योक्तौ द्रष्टव्याः ॥ २५० ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां खोपज्ञाभिधानचिन्तामणिनाममालाटीकार्या देवकण्डो द्वितीयः ॥ २॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy