SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ देवकाण्ड: । १३७ - बाला वासू: - ८३५ ) ॥ वसति पितृगृहे वासूः “कसिपद्यर्त्यादिभ्यो णित्" ॥ ( उणा - ८३५ इत्यादिशब्दादूः ॥ १ ॥ मार्ष आर्यः मर्षणात् सहनाद् मार्षः, मारिषोऽपि यथा-- पर्षत्, परिषत् ॥ १ ॥ अरणीयोऽभिगम्य आर्यः ॥ २ ॥ देवो भट्टारको नृपः । दीव्यतीति देवः ॥ १ ॥ भटति भट्टारः “ द्वार शृङ्गार - " ॥ ( उणा - ४११) ॥ इत्यादिशब्दादारान्तः साधुः; स्वार्थे के भट्टारकः ॥ २ ॥ राष्ट्रियो नृपतेः श्यालः राष्ट्रे भवो राष्ट्रियः “राष्ट्रादियः" || ६ | ३ | ३॥ इति इयः ॥ १॥ दुहिता भर्तृदारिका ॥ २४७ ॥ नृपतेर्दुहिता भर्तुर्दारिका भर्तृदारिका ॥ १ ॥ २४७ ॥ देवी कृताभिषेका " कृताभिषेका राज्ञी देवी, वासवदत्तादिः ॥ १ ॥ अन्या भट्टिनी अकृताभिषेका राज्ञी भट्टिनी, पद्मावत्यादिः ॥ १ ॥ गणिकाऽज्जुका । गणयति ईश्वरानीश्वरौ गणिका, गणः पेटकोsस्त्यस्याः । अज्जुकाया असस्प्रकृतिप्रत्ययविभागां देशीपदप्रायाः । अर्जयतीति वा अज्जुका " कञ्चुकांशुक- " ॥ ( उणा-५७ ) ॥ इत्यादिना निपात्यते ॥ १ ॥ नीचाचेटीसखीहूतौ हण्डेहओहलाः क्रमात् ॥ २४८ ॥ नीचाया आह्वाने इण्डे ॥ १ ॥ चेट्या आह्वाने हजे ॥ १ ॥ सख्या आह्वाने हला ॥ १ ॥ २४८ ॥ अब्रह्मण्यमवध्योक्तौ वधानर्हस्य ब्राह्मणस्य पूत्करणे न ब्राह्मणे साधु अब्रह्मण्यमिति वर्तते " प्राण्यङ्गरथ ” ॥ ७ । १ । ३७ ॥ इति यः । अवधयाञ्चाऽर्थमित्येके । ज्यायसी तु खसाऽत्तिका ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy