SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ- . . शेषश्चात्र... अथ सूत्रधारे स्याद् बीजदर्शकः ॥ १॥ नन्दी तु पाठको नान्द्याः । नन्दत्यवश्यं नन्दी, नन्दनं नन्दः समृद्धिस्तत्र भवा तत्प्रयोजनत्वाद् नान्दी पूर्वरङ्गाङ्गम् , तस्याः पाठकः ॥ १॥ पार्श्वस्थः पारिपार्श्विकः ॥ २४४ ॥ पार्श्वे तिष्ठति पार्श्वस्थः ॥ १ ॥ परिपार्श्व वर्तते पारिपार्श्विकः ॥ २ ॥२४४॥ वासन्तिकः केलिकिलो वैहासिको विदूषकः । प्रहासी प्रीतिदश्व ..वसन्तेन चरति वासन्तिकः ॥ १॥ केल्या किलति केलिकिलः, केलीकिल इत्यपि ॥ २ ॥ विचित्रो हासो विहासः, तेन चरति वैहासिकः ॥ ३ ॥ सन्धि विग्र. हेण विग्रहं च सन्धिना दूषयति विदूषकः ॥ ४ ॥ प्रहसतीत्येवं शीलः प्रहासी ॥५॥ प्रीतिं ददातीति प्रीतिदः ॥ ६ ॥ अथ षिङ्गः पल्लवको विटः ॥२४५॥ - सेटनं सिट अनादरः सिटा गायति गच्छतीति वा षिड्गः, पृषोदरादित्वात् षत्वम् ॥ १ ॥ पल्लति चतुरं गच्छति पल्लवः “वडिवटि."॥ (उणा-५१५)॥ इत्यकः, खार्थे के, पल्लवकः, -पल्लवयतीति वा ॥२॥ वेटति शब्दायते विटः, पुंक्लीबलिङ्गः ॥ ३ ॥ २४५॥ पिता त्वावुकः अवतीत्यावुकः “कञ्चुकांशुक" ॥ (उणा-५७) ॥ इत्यादिशब्दादुकान्तो निपात्यते ॥१॥ आवुत्तभावुकौ भगिनीपतौ । अवतीत्यावुत्तः “पुतपित्त' ॥ (उणा-२०४) ॥ इत्यादिशब्दात्तान्तो निपात्यते ॥ १ ॥ भवतीति भावुकः, “कञ्चुकांशुक-" ॥ ( उणा-५७) ॥ इत्यादिना निपात्यते ॥ २॥ भावो विद्वान् भावयति भावः ॥ १॥ युवराजः कुमारो भर्तृदारकः ॥ २४६ ॥ युवा चासौ राजा च युवराजः कुमारयति क्रीडयति कुमारः भर्तुर्दारको भर्तृद्वारकः ॥१॥२४६ ।।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy