________________
२ देवकाण्डः ।
१३५ • शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धर्मीपुत्रो रङ्गजायाऽऽजीवो रङ्गावतारकः ॥ २४२ ॥
नटः कृशाश्वी शैलाली शिलूपस्य ऋषेरपत्यं शैलूषः, शलति वेषान्तरमिति वा “कोरदूषाटरूषः'। (उणा-५६१) ॥ इत्यादिना ऊषान्तो निपात्यते ॥ १॥ तां तां भूमिकां बिभर्ति भरतः "दृपृभृमृशी-" ॥ (उणा-२०७) ॥ इति अतः, भरतापत्यत्वाद् वा ॥ २ ॥ सर्वे केशा रूपान्तराण्यस्य सन्ति सर्वकेशी, सर्वादेरिन् ॥ ३ ॥ भरतस्य पुत्रको भरतपुत्रकः ॥ ४ ॥ धर्मी द्विधा--नाट्यधर्मी लोकधर्मी च, तस्याः पुत्रो धर्मीपुत्रस्तदुपजीवकत्वात् ॥ ५ ॥ रङ्गेण जायया वाऽऽजीवति रङ्गाजीवो जायाऽऽजीवः ॥६॥७॥ रङ्गं नाट्यमवतारयति रङ्गावतारकः ॥ ८ ॥ २४२ ॥ नटति नृत्यति नटः, पुंक्लीबलिमः ॥ ९॥ कृशाश्वेन प्रोक्तं नटसूत्रं वेत्त्यधीते वा कृशाश्वी " कृशाश्वकर्मन्दा. दिन्" ॥ ६ ॥ ३ । २९० ॥ इति इन् ॥ १० ॥ शिलालिना प्रोक्तं नटसूत्रमधीते शैलाली “ शिलालिपाराशर्यान्नटभिक्षुसूत्रे” ॥ ६ । ३ । १८९ ॥ इति णिन् ॥ ११॥
चारणस्तु कुशीलवः । चरणस्य भ्रमणस्यायं चारणः, यतो देशान्तरभ्रमाद् जीवति ॥ १॥ कुत्सितं शीलं वाति कुशीलवः ॥२॥
भ्रभ्रुभ्रूभृपरः कुंसो नटः स्त्रीवेषधारकः ॥ २४३ ॥ स्त्रीवेषधारी नटः भ्रवः कुंसनं भासनमस्य भ्रकुंसः भ्रुकुंसः “भ्रवोऽच कुंसकुट्योः" ॥२॥ ४ । १०१ ॥ इत्यत् ह्रखश्च ॥ १ ॥२॥ भ्रूकुंसो भृकुंसः एतौ तु मतान्तराश्रयेण । यद् वाचस्पतिः
स्त्रीभूमिकां तु यः प्राप्तश्चत्वारस्तस्य वाचकाः। __ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसवत् ॥ १॥ इति ॥ ३ । ४ । २४३ ॥
वेश्याऽऽचार्यः पीठमर्दः वेश्याऽऽचार्यो वेश्यानां नृत्तोपाध्यायः ॥ १॥ पीठं नर्तनस्थानं पादैम॒द्नाति पीठमर्दः ॥२॥
सूत्रधारस्तु सूचकः। सूत्रं धरतीति सूत्रधारः सूचयति भाविनमर्थं सूचकः, स्थापकोऽपि ॥३॥