________________
१३४
अभिधानचिन्तामणौ
धनिमरणार्थ इति सभ्याः ॥ ८ ॥ नशनं नाशः ॥ ९॥ दीर्घा चासौ निद्रा च दीर्घनिद्रा ॥१०॥ निमील्यतेऽस्मिन्निन्द्रियैरिति निमीलनम् ॥ ११॥ दिष्टस्य कालस्य जीवितावधेरन्तो दिष्टान्तः ॥ १२ ॥ अस्यते अस्तम् ॥ १३ ॥ कालो मृत्युदूतः, क्षण. त्रुट्याद्यात्मको वा । यदाहुः- "कालः संहरति प्रजाः” तस्य धर्मः कालधर्मः संहारः ॥ १४ ॥ अवसीयते अवसानम् ॥ १५ ॥
सा तु सर्वगा ॥ २३८ ॥
मरको मारः
सा तु मृतिः सर्वगा सर्वलोकव्यापिनी ॥ २३८ ॥ मरणं मरकः, पुंक्लीकलिङ्गः, " दृकुन-" ॥ ( उणा-२७ ) ॥ इत्यकः ॥१॥ मृश् हिंसायामित्यस्य णिचि मारणं मारिः, स्त्रीलिङ्गः ॥२॥ उपसंहारमाह
त्रयस्त्रिंशदमी व्यभिचारिणः। अमी धृत्यादयो विविधमाभिमुख्येन चरन्ति व्यभिचारिणः ।
स्युः कारणानि कार्याणि सहचारीणि यानि च ॥ २३९ ।। रत्यादेः स्थायिनो लोके तानि चेत् काव्यनाट्ययोः। विभावा अनुभावाश्च व्यभिचारिण एव च ॥ २४०॥
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो भवेद् रसः। रत्यादेः स्थायिनो लोके यानि कारणान्यालम्बनोद्दीपनस्वभावानि ललनोद्यानादीनि, तानि काव्ये नाट्ये च विभावाः वागाद्यभिनयसंहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयः, विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैरिति कृत्वा एवं कार्याणि कटाक्षभुजाक्षेपादीनि अनुभावाः स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेष सामाजिकजनोऽनुभवन्ननुभाव्यते यैरिति कृत्वा, तथा सहचारीणि धृत्यादीनि व्यभिचारिणः ॥२४०॥ तैर्विभावाद्यैरभिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स स्थायी रत्यादिको भावः कविसहृदयै रस्यमानो रसः शृङ्गारादिः ॥
पात्राणि नाट्येऽधिकृताः पान्ति स्वभूमिकामिति पात्राणि, "त्र-” ॥ ( उणा-४४६) ॥ इति नट् ॥ १॥
तत्तद्वेषस्तु भूमिका ॥ २४१॥ तेषां तेषां रामादीनां वेषो रूपपरिग्रहस्तत्तद्वेषः रूपान्तरपरिग्रहाधारभूतत्वाद् भूमिप्रतिकृतिभूमिका ॥ १ ॥ २४१ ॥