SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । १३३ मार स्वादावशः . गुणो जिगीषोत्साहवान् क्रोधाद् जातो जिगीषोत्साहयुक्तो गुणो न मर्षणं अमर्षः प्रतिचिकीर्षारूपः ॥ १ ॥ २३४ ॥ त्रासस्त्वाकस्मिकं भयम् । वसनं त्रासः, निर्घातादिभ्यश्चेतश्चमत्कृतिरूपः अकस्माद् भवं आकस्मिकं भयम्। अत्र न पूर्वापरविमर्श इति भयाद् भेदः ॥ १॥ .. अपस्मारः स्यादावेशः . अपस्मरणमपस्मारः, धातुवैषम्यादेरावेशः ॥ १ ॥ निर्वेदः स्वावमाननम् ॥ २३५ ॥ निवेदनं निर्वेदः, स्वस्यात्मनोऽवमाननं स्वावमाननम् ॥ १ ॥ २३५ ॥ .. आवेगस्तु त्वरिस्तूर्णिः संवेगः संभ्रमस्त्वरा । आवेजनमा-गः ॥ १॥ त्वरणं त्वरिः, मण्यादित्वाद् इः ॥ २ ॥ तूरणं तूर्णिः, स्त्रीलिङ्गो, "कावावी-"। ( उणा--६३४ ) ॥ इति णिः ॥ ३ ॥ संवेजनं संवेगः ॥ ४ ॥ संभ्रमणं संभ्रमः ॥ ५ ॥ त्वरणं त्वरा ॥ ६ ॥ - वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ॥ २३६॥ . - अध्याहारस्तर्क ऊहः ... वितर्कणं वितर्कः ॥ १ ॥ उन्नीयते उन्नयनम् ॥ २ ॥ परामृश्यते परामर्शः ॥ ई॥विमृश्यते विमर्शनम् ॥ ४ ॥ २३६ ॥ अध्याहरणमपूर्वोत्प्रेक्षणमध्याहारः ॥५॥ तर्कणं तर्कः, तरन्त्यनेन संशयविपर्ययाविति वा पुंलिङ्गः, वैजयन्तीकारस्तु "वितर्क स्तर्कमस्त्रियाम्” इत्याह ॥ ६ ॥ ऊहनमूहः, ऊहाऽपि ॥ ७ ॥ असूयाऽन्यगुणदूषणम् । असूयनं असूया ॥ १ ॥ मृतिः संस्था मृत्युकालौ परलोकगमोऽत्ययः ॥ २३७ ॥ पञ्चत्वं निधनं नाशो दीर्घनिद्रा निमीलनम् । दिष्टान्तोऽस्तं कालधर्मोऽवसानं . मरणं मृतिः ॥ १॥ संस्थानं संस्था ॥२॥ मरणं मृत्युः, स्त्रीपुंसलिङ्गः ॥३॥ कालयति क्षिपत्यायुः कालः ॥ ४ ॥ परलोके गमनं परलोकगमः ॥ ५ ॥ अत्ययनमत्ययः ॥ ६ ॥ २३७ ॥ देहस्तावत् पञ्चभूतारब्धो मरणे त्वेतस्य पञ्चानां भावः पञ्चत्वं, प्रत्येकं खांशसंक्रमात् ॥ ७ ॥ निवृत्तं धनमत्र निधनं, पुंक्लीबलिङ्गः, निपूर्वो १८ .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy