SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १३२ अभिधानचिन्तामणौया तु संभावनाऽऽत्मनि ॥ २३१॥ दर्षात् साऽऽहोपुरुषिका स्यात् अहो अहं पुरुष इत्यस्यां आहोपुरुषिका ॥ १ ॥ २३१ ॥ अहंपूर्विका पुनः । अहं पूर्वमहं पूर्वमिति अहं पूर्वमित्यस्यामहपूर्विका, एवं अहंप्रथामिका, अहमग्रिका च ॥ १ ॥ उग्रत्वं तु चण्डता ॥ २३२ ॥ उग्रस्य भाव उग्रत्वम् ॥ १॥ चण्डस्य भावश्चण्डता ॥ २ ॥ २३२ ॥ प्रबोधस्तु विनिद्रत्वम् प्रबोधनं प्रबोधः ॥ १॥ विनिद्रस्य भावो विनिद्रत्वम् ॥ २ ॥ - ग्लानिस्तु बलहीनता। ग्लानं ग्लानिः, स्त्रीलिङ्गः, “ग्लाहाज्यः" ॥ ५। ३ । ११८ ॥ इत्यनिः, बलहीनता बलापचयः ॥ १॥ दैन्यं कार्पण्यम् दीनस्य भावो दैन्यम् ॥ १॥ कृपणस्य भावः कार्पण्यम् ॥ २॥ श्रमस्तु क्लमः क्लेशः परिश्रमः ।। २३३ ॥ प्रयासायासव्यायामाः श्रमणं श्रमः ॥ १॥ क्लमनं क्लमः ॥ २ ॥ क्लेशनं क्लेशः ॥ ३ ॥ परिश्रमणं परिश्रमः ॥ ४ ॥ २३३ ॥ प्रयसनं प्रयासः ॥ ५॥ आयसनं आयासः ॥६॥ व्यायमनं व्यायामः ॥ ७॥ उन्मादश्चित्तविप्लवः । उन्मदनं उन्मादः ॥ १ ॥ चित्तस्य विप्लुतिश्चित्तविप्लवः ॥ २ ॥ मोहो मौढ्यम् मोहनं मोहः ॥ १ ॥ मूढस्य भावो मौढ्यम् ॥ २॥ चिन्ता ध्यानम् चिन्तनं चिन्ता “ भीषिभूषि-" ॥ ५। ३ । १०९ ॥ इत्यङ् ॥ १ ॥ अमर्षः क्रोधसंभवः ॥ २३४ ॥ .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy