________________
- १३०
अभिधानचिन्तामणौ
विषदनं विषादो मनःपीडा ॥१॥ अवसदनमवसादः ॥ २ ॥ सदनं सादः ॥ ३ ॥ विषण्णस्य भावो विषण्णता ॥ ४ ॥
___ मदो मुन्मोहसंभेदः
मदनं मदः “ व्यधजपमद्भयः" ॥ ५।३।४७ ॥ इत्यल् , आनन्दसंमोहयोः संगमः ॥ १ ॥
व्याधिस्त्वाधी रुजाकरः ॥ २२६॥ रुजाकरः आधिर्मनःपीडा, व्याधिहेतुत्वाद् व्याधिः ॥ १ ॥ २२६ ॥ . .
निद्रा प्रमीला शयनं संवेशस्वापसंलयाः ।
नन्दीमुखी श्वासहेतिस्तन्द्रा . नियतं द्रान्तीन्द्रियाणि अस्यां निद्रा ॥ १ ॥ प्रमीलन्तीन्द्रियाण्यस्यां प्रमीला ॥ २ ॥ शय्यते शयनम् ॥ ३ ॥ संविशन्तीन्द्रियाण्यत्र संवेशः ॥ ४॥ स्वपनं स्वापः ॥ ५ ॥ संलीयन्ते इन्द्रियाण्यत्र संलयः ॥ ६ ॥ नन्दीव मुखमस्यां नन्दीमुखी ॥४॥ श्वासा हेतयोऽस्यां श्वासहेतिः, एतौ सुप्तवाचकावित्यन्ये ॥८॥ तन्द्रिः सादमोहनयोः, सौत्रः, तन्द्रयते तन्द्रा, तननं द्रात्यस्यां वा; तन्द्रिस्तन्द्रीत्यपि ॥ ९ ॥ शेषश्चात्र--निद्रायां तामसी
सुप्तं तु साधिका ॥२२७॥
सा निद्रा अधिका साऽतिशया वपनं सुप्तम् ॥ १॥ शेषश्चात्र-सुप्ते सुस्वापः सुखसुप्तिका ॥ २२७ ॥
औत्सुक्यं रणरणकोत्कण्ठे आयल्लकारती । हृल्लेखोत्कलिके च उत्सुकस्य भाव औत्सुक्यं, विलम्बासहत्वम् ॥ १॥ अतिशयेन चित्तं रणत्यत्रेति रणरणः, “ अदुपान्त्यऋद्भ्यामश्चान्ते" ॥ ( उणा--१४ ) इति अः, द्वित्वं च, स एव रणरणकः ॥ २ ॥ उत्कण्ठनमुत्कण्ठा, उत्कण्ठोऽपि ॥३॥ आयत आगच्छतो लकति आसादयति आयल्लकम् ॥ ४ ॥ इयर्ति सुखमस्यामरतिः, स्त्रीलिङ्गः, " खल्यमि-" ॥ ( उणा--६५३ ) ॥ इति अतिः; न रतिररतिरिति वा ॥ ५ ॥ हृदयं लिखति हल्लेखः “ हृदयस्य हृल्लासलेखाण्ये" ॥ ३।२।९४ ॥ इति हृदादेशः ॥ ६ ॥ उत्कलनमुत्कलिका " क्रीकल्याल." ॥ ( उणा--३८ )॥ इति इकः॥७॥
अथावहित्थाऽऽकारगोपनम् ॥ २२८ ॥
आकारस्य भूविकारमुखरागादेर्गोपनमाच्छादनमाकारगोपनं, न बहिःस्थं चित्तमस्यां अवहित्था, स्त्रीक्लीबलिङ्गः, पृषोदरादित्वात् साधुः । .