SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । १२९ प्रेक्षणं प्रेक्षा ॥ ११ ॥ चेतनं चित् , स्त्रीलिङ्गः ॥१२ ॥ उपलम्भनमुपलब्धिः ॥१३॥ संवेदनं संवित्तिः ॥ १४ ॥ शेत इति शेर्मोहस्तं मुष्णाति शेमुषी, मूलविभुजादित्वात् के ङीः, शमेः क्वसौ ङ्यां वा, पेचुषीवत् ॥ १५ ॥ दर्शनं दृष्टिः ॥ १६ ॥ सा मेधा धारणक्षमा ॥ २२३ ॥ सा मतिर्धारणसमर्था मेधते संगच्छतेऽस्यां सर्वे मेधा ॥ १ ॥ २२३ ॥ पण्डा तत्त्वानुगा तत्त्वानुगामिनी मतिः पण्यते स्तूयते पण्डा “पञ्चमाडः " ॥ (उणा-- १६८) ॥ इति डः ॥१॥ मोक्षे ज्ञानम् । मोक्षविषया मोक्षफला वा मतिर्ज्ञानम् ॥ १ ॥ विज्ञानमन्यतः मोक्षशास्त्रादन्यत्र शास्त्रे शिल्पे च चित्रादौ मतिर्विज्ञानम् ॥ १ ॥ शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥२२४॥ ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । श्रोतुमिच्छा शुश्रूषा ॥ १ ॥ श्रूयते श्रवणम् , आकर्णनम् ॥१॥ गृह्यते ग्रहणं आदानम् ॥ १॥ धार्यते धारणं अविस्मरणम् ॥ १ ॥ २२४ ॥ ऊहनमूहः युक्तिगम्यस्तर्कः ॥१॥ अपोहनमपोहोऽसत्पक्षनिराकरणम् ॥ १ ॥ अर्थस्य यथावस्थतया विज्ञानमर्थविज्ञानम् ॥ १ ॥ तत्त्वस्य परमार्थस्य ज्ञानं तत्त्वज्ञानम् ॥ १॥ इत्यष्टौ बुद्धिगुणाः ॥ व्रीडा लज्जा मन्दाक्षं हीस्त्रपा वीडनं व्रीडा, चित्तसंकोचः । व्रीडोऽपि ॥१॥ लज्जनं लज्जा ॥२॥ मन्दमाक्षि यत्र मन्दाक्षं, स्वोत्थलज्जावशाद्धि चक्षुरवनमति, शूका मन्दाक्षमित्येके ॥ ३ ॥ हीयते हीः, स्त्रीलिङ्गः, “क्रुत्संपदादिभ्यः-" ॥ ५।३।११४ ॥ इति क्विप् ॥ ४ ॥ त्रप्यते त्रपा ॥५॥ साऽपत्रपाऽन्यतः ॥ २२५ ॥ सा लज्जाऽपरस्माद् लज्जावहे जातेऽपत्रपा ॥ १॥ २२५ ॥ जाज्यं मौख्यं जडस्य भावः कर्म वा जाड्यम् ॥ १॥ मूर्खस्य भावः कर्म वा मौर्यम् ॥२॥ विषादोऽवसादः सादो विषण्णता।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy