SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ - १२६ अभिधानचिन्तामणौ भिया च भीतिर्भयं वैक्लव्यं “वर्षादयः क्लीबे" ॥५। ३ । २९ ॥ इति अल् ॥१॥ भीः, स्त्रीलिङ्गः ॥२॥ आतङ्कनं आतङ्कः ॥ ४ ॥ आशङ्कनं आशङ्का ॥५॥ साधूनस्यति साध्वसम् ॥ ६॥ दरणं दरः, पुंक्लीबलिङ्गः ॥ ७ ॥ भिया भिदादित्वात् ॥ ८॥ तच्चाहिभयं भूपतीनां वपक्षजम् ॥ २१५॥ तच्चेति भयं खपक्षात् राजपुत्रादेरहेरिव गृहस्थितात् भयम् ॥ १॥ २१५ ॥ अदृष्टं वह्नितोयादेः वह्नितोयाभ्यां आदिशब्दात् पिशाचाऽशन्यादेर्भयमदृष्टम् ॥ १॥ दृष्टं खपरचक्रजम् । स्वराष्ट्राचौराटविकादिभयं परराष्ट्रात् दाहघिलोपादिभयं च दृष्टम् ॥ १॥ भयङ्करं प्रतिभयं भीमं भीष्मं भयानकम् ॥ २१६ ॥ भीषणं भैरवं घोरं दारुणं च भयावहम् । भयं करोतीति भयङ्करं “ मेघर्तिभयाभयात् खः ” ॥ ५।१।१०६ ॥ इति खः॥ १ ॥ प्रतिगतं भयेनेति प्रतिभयम् ॥ २ ॥ बिभ्यत्यस्माद् भीमं, भीष्मं च " भियः षोऽन्तश्च वा " ॥ ( उणा-३४४ ) ॥ इति मक् ॥ ३ ॥ ४ ॥ बिभ्यत्यस्माद् भयानकम् ॥ ५ ॥ २१६ ॥ भीषयते भीषणम् ॥ ६ ॥ बिभ्यत्यस्माद् भैरवम् “ कैरवभैरव." ॥ ( उणा-५१९ ) ॥ इति साधुः, भीरोरिदं त्रासकृदिति वा ॥ ७ ॥ घुरत्यस्माद् घञि, घोरम् ॥ ८ ॥ दारयति चित्तं दारुणं “ ऋक-" ॥ (उणा-१९६) ॥ इत्युणः ॥ ९ ॥ भयमावहति भयावहम् , लिहादित्वादच् ॥१०॥ शेषश्चात्र-भयङ्करे तु डमरमाभीलं भासुरं तथा ॥ जुगुप्सा तु घृणा जुगुप्सनं जुगुप्सा, चित्तसंकोचः ॥१॥ घरति घृणा “ घृवीह्वा-" ॥ (उणा१८३) ॥ इति णक् ॥ २॥ अथ स्याद् विस्मयश्चित्रमद्भुतम् ॥ २१७ ॥ चोद्याश्चर्ये विस्मयनं विस्मयः, चेतसो विस्तारः ॥ १॥ चीयते चित्रं " चिमिदि-"॥ ( उणा-४५४ ) ॥ इति त्रक् , चित्रयति वैचित्र्यं संपादयतीति वा अच् ॥ २ ॥ अद् भवनं अद्भुतम् ॥ ३ ॥ २१७ ॥ चोद्यत इति चोद्यम् ॥४॥ आचर्यते आश्चर्यम् , वर्चस्कादित्वात् साधुः ॥ ५॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy