________________
२ देवकाण्डः ।। १२३ देवताऽर्चनतूर्ये तु धूमलो बलिरित्यपि। क्षुण्णकं मृतयात्रायां माङ्गले प्रियवादिका ॥ ३ ॥ रणोद्यमे त्वर्धतूरो वाद्यभेदास्तथाऽपरे । डिण्डिमो झझरो मड्डुस्तिमिला किरिकिच्चिका ॥ ४ ॥ लम्बिका टट्टरी वेध्या कलापूरादयोऽपि च ॥
अथ शारिका स्यात् कोणो वीणादिवादनम् ।
शृणाति ताडयति वाद्यं शारिका ॥ १ ॥ कुणति शब्दायते वाद्यमनेन कोणः पुंलिङ्गः, वाचस्पतिस्तु- “ द्वयोस्तु कोणो वीणादेर्वादने शारिका च सा” इत्याह ॥ २ ॥ वीणादि वाद्यतेऽनेन वीणादिवादनं वादनकाष्टमित्यर्थः ॥
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ॥२०८॥ बीभत्साद्भुतशान्ताश्च रसाः
श्रयति एनं जनः शृङ्गारः, पुंक्लीबलिङ्गः “ द्वारशृङ्गार-" ॥ (उणा-४११) ॥ इत्यारान्तो निपात्यते, रसेषु शृङ्गमुत्कर्षमियर्तीति वा ॥ १ ॥ हासे साधुः हास्यः हास एव वा, सामाजिकांनां चर्वणागोचरं गतो हास्यः, यदाह- " स्थाय्येव तु. रसीभवेत् ” इति ॥ १॥ किरति विक्षिपति चित्तानि इति करुणः “ ऋकवृध्दारिभ्य उणः ” ॥ ( उणा-१९६ ) ॥ इत्युणः ॥ १॥ रुद्रस्यायं रौद्रः ॥ १॥ अजति गच्छत्यनेन अस्मिन् वा सत्त्ववृद्धिमिति वीरः "ऋज्यजि-" ॥ (उणा-३८८)॥ इति रक् , वीरयन्ते विक्रामन्ति जना अनेनेति वा ॥ १ ॥ बिभ्यत्यस्माद् भयानको व्याघ्रादिः, तद्धेतुकत्वात् तु रसः “शीभीराजेश्चानकः" ॥ ( उणा-७१)॥ इत्यानकः ॥१॥२०८॥ बीभत्सा अस्त्यस्मिन् बीभत्सः ॥१॥ अद् इत्याश्चर्यार्थमव्ययम् , अद् विस्मितं भवति अनेनास्मिन् वा मनोऽद्भुतः “ अदो भुवो डुतः " ॥ ( उणा--२१४ ) ॥ इति डुतः ॥ १॥ शम्यते स्म शान्तः “णौ दान्त-" ॥ ४ । ४ । ७४ ॥ इति साधुः ॥ १॥ हास्यादयस्तु पुंलिङ्गाः । गौडस्तु
" शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् ।
करुणा चाद्भुतं शान्तं वात्सल्यं च रसा दश ॥१॥ ' इति लिङ्गनिर्णयमाह । सामाजिकै रस्यन्ते चय॑न्ते इति रसाः, पुंक्लीवलिङ्गः ॥
भावाः पुननिधा स्थायिसात्त्विकसंचारिप्रभेदैः
भावयन्ति कुर्वन्ति रसान् , स्वकारणाद् भवन्ति इति वा भावाः, भावयन्ति व्याप्नुवन्ति सामाजिकानां मनांसीति वा, त्रिधा त्रिप्रकाराः, सामाजिकानां वासनारूपेण तिष्ठन्तीति स्थायिनः; ग्रहादित्वाद् णिन् । सीदत्यस्मिन् मन इति व्युत्पत्तेः सत्त्वगुणो