SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १२२ समयः १ ॥ १ ॥ २०६ ॥ अभिधानचिन्तामणौ ॥ नाट्ये तु द्रुतादिलयानुसारेण क्रमादोघाद्याः वाद्यप्रकाराः ॥ १ ॥ - मृद् अङ्गमस्य मृदङ्गः, मृद्यत इति वा “ विडिविलि - " ॥ ( उणा - १०१ ) ॥ इत्यङ्गक् ॥ १ ॥ मुरात् संवेष्टनाज्जातो मुरजः, मूर्व्यते बध्यत इति वा मुमुर्च ॥ ( उणा - १३२ ) इत्यजः ॥ २ ॥ "6 "" सोऽङ्क्यालिङ्ग्यूर्ध्वक इति त्रिधा । मृदङ्गो मुरजः स मृदङ्गः, त्रिधा त्रिप्रकारः, अङ्कोऽस्यास्तीति अङ्की, उत्सङ्गस्थत्वात् ॥ १ ॥ आलिङ्गोऽस्यास्तीति आलिङ्गी, आलिङ्ग्य वादनात् ॥ १ ॥ ऊर्ध्व कृत्यैकेन मुखेन वादनाद् ऊर्ध्वं कायति ऊर्ध्वकः आभोगिकाख्यः ॥ १ ॥ आहुश्च ८८ ८८ हरीतक्या कृतिस्त्वङ्क्यो यवमध्यस्तथोर्ध्वकः । आलिङ्ग्यश्चैव गोपुच्छो मध्यदक्षिणवामृगाः ॥ १ ॥ नाट्ये चैते भेदाः ॥ बिभ्यति अस्या रणे, भेरी " भीवृधि - ॥ ( उणा - ३८७ ) इति रः, इकारान्ताद् वा ङीः, ॥ १ ॥ दाम्यति शब्दोऽन्येषांमंत्र दुन्दुभिः, पुंलिङ्गः "" " "" दमेर्दुभिर्दुम् च ॥ ( उणा - ६८६ ) ॥ इति साधुः, दुन्दुशब्देन भाति भाययतीति वा ॥ २ ॥ अणति शब्दायते आनकः " अणेर्डित् ॥ ( उणा - ७२ ) ॥ इति आनकः, पुंलिङ्गः, वाचस्पतिस्तु - " पटहस्त्वानकोऽस्त्रियाम् -इत्याह । आ अनितीति वा ॥ ३ ॥ २०७ ॥ पठन्ति हर्षे गच्छन्ति अत्र पटहः, पुंक्लीबलिङ्गः कॄपृकटिपटि- ” ॥ ( उणा-५८९. .) ॥ इत्यहः, पटे हन्यत इति वा पटहः । केचिद् द्वौ द्वौ भिन्नार्थी आहुः; वाद्यविशेषः ॥ ४ ॥ शेषश्चात्र स्याद् यशःपटहो ढक्का शोsर्थ पटहो यशः पटहः ॥ १ ॥ ढगित्यव्यक्तं कायति ढक्का ॥२॥ भेरी दुन्दुभिरानकः ॥ २०७ ॥ पटह: अथ दर्दरे कलशीमुखः । सूत्रकोणो डमरुकं समौ पणव कङ्कण 1 शृङ्गवाद्ये शृङ्गमुखं हुडुकस्तालमर्दकः ॥ १ ॥ काहला तु कुहाला स्यात् चण्डकोलाहला च सा । संवेशप्रतिबोधार्थे द्रगडद्रकटावुभैौ ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy