SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः। १२१ काण्डवीणा कुवीणा च डकारी किंनरी तथा । सारिका खुङ्खणी च कायः कोलम्बकस्तस्याः तस्या वीणायाः शरीरं, केऽवलम्बन्ते तन्त्र्योऽत्रेति कोलम्बकः, पृषोदरादित्वात् , कुल संस्त्याने अस्मादम्बकच् इत्येके ॥ १॥ उपनाहो निबन्धनम् ।। २०४ ॥ वीणाया निबन्धनं येन चर्मणोपनह्यते स उपनाहः, प्रान्ते यत्र तव्यो निबध्यन्ते वा ॥ १ ॥ २०४ ॥ दण्डः पुनः प्रवालः स्यात् वीणाया दण्डः, प्रवलति प्रवालः, पुंक्तीबलिङ्गः, ज्वलादित्वाद् णः । यच्छाश्वतः--"प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे" ॥ १॥ ककुभस्तु प्रसेवकः । कक्यते ककुभः " ककेरुभः" ॥ ( उणा--३३३ ) ॥ इत्युभः, दण्डाधः शब्दगाम्भीर्यार्थ दारुमयं खण्डं यद् भत्रया आच्छाद्यते ॥ १ ॥ प्रसीव्यते प्रसेवः, खार्थे के, प्रसेवकः ॥२॥ मूले वंशशलाका स्यात् कलिका कूणिकाऽपि च ॥२०५॥ वीणाया मूले कलयति तन्त्री कलिका ॥१॥ कूणयते तन्त्री कूणिका ॥ २ ॥ २०५॥ __कालस्य क्रियया मानं तालः क्रियया आवापनिष्क्रमणादिकया कालस्य मानं परिच्छेदकं तल्यते प्रतिष्ठीयतेऽनेन तालः चञ्चत्पुटादिः । गेयाया गानक्रियायाः काले नियमहेतुरित्येके। यद् दन्तिलः तत्र ज्ञेयाः कलापाताः पादभागास्तथैव च । ___ मात्रा च परिवर्तश्च वस्तु चैव विशेषतः ॥ १ ॥१॥ साम्यं पुनर्लयः। मानमेययोरन्यूनाधिक्ये श्लिष्टता लयः द्रुतादिः वाद्यादीनामन्योन्यं समत्वमिति यावत् , तालविशेषस्तु लयोऽन्यः ॥ १ ॥ द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात् ॥ २०६॥ द्रुतादीनां लयानां मोघाद्याः क्रमेण पर्यायाः, भागुरिस्तु घनस्थानेऽनुगतमित्याह, यत्पाठः- “ लम्बितदुतमध्यानि तत्त्वौघानुगतानि तु । अभिधानकृतामेष
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy