________________
. २ देवकाण्डः 1
११९
भिरङ्कोऽङ्कनं यस्य स उत्सृष्टिकाङ्कः, तदेकदेशो अङ्कः, भीमवत् ॥ १॥ ईहा चेष्टा मृगस्येव, स्त्रीमात्रार्था यत्र स ईहामृगः ॥ १ ॥ १९८ ॥ एतेऽभिनेयस्य प्रबन्धस्य प्रकारा भेदाः स्युः ॥
भाषाः षट् संस्कृतादिकाः। भाष्यन्ते भाषाः, संस्कृत-प्राकृत-मागधी-शौरसेनी--पैशाच्यऽपभ्रंशलक्षणाः॥
भारती सात्वती कैशिक्यारभट्यौ च वृत्तयः ॥ १९९ ॥ ... भारती वाक् तत्प्रधाना वृत्तिरपि भारती, तत्र वाचिकाभिनयप्राधान्यात् ॥१॥ सदिति प्रत्याख्यानरूपं संवेदनं तद् यत्रास्ति तत् सत्वत् मनः तस्येयं सात्वती, सात्त्विकाभिनयप्राधान्यात् ; अथवा सत् सत्त्वरूपं विद्यते येषां ते सत्वन्तः तेषामियं, सत्त्वं च तत्र परच्छिद्रान्वेषणोपायप्रतिभानवैचित्र्योत्प्रेक्षणलक्षणप्रकाशलाघवात्मकम् ॥ १ ॥ केशाः किंचिदप्यर्थक्रियाजातमकुर्वन्तो यथा देहशोभोपयोगिनः, तद्वत् सौन्दर्योपयोगी व्यापारः कैशिकी, आहार्याभिनयप्राधान्यात् ; यद्वा, विष्णोः केशेषु बध्यमानेषु भवा कैशिकी, अध्यात्मादित्वादिकण् ; यदाह
विचित्रैरङ्गहारैश्च देवो लीलासमन्वितैः ।
बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ १॥ इति ॥ १॥ इयूतीति अरा भटाः सोत्साहा अनलसास्तेषामियं आरभटी, आङ्गिकाभिनयप्राधान्यात् ॥ १ ॥ १९९ ॥
__ वाद्यं वादित्रमातोद्यं तूर्य तूरं स्मरध्वजः ।
वाद्यते वाद्यम् “य एचातः” ॥ ५। १ । २८ ॥ इति यः ॥ १॥ वदति आहन्यमानं वादित्रम् “ भूगृवदिचरिभ्यो णित् ” ॥ ( उणा--४६० ) ॥ इति इत्रः ॥२॥ आतुद्यते आतोद्यम् ॥ ३ ॥ तूर्यत इति घ्याण तूर्य, पुंक्लीबलिङ्गः ॥ ४ ॥ तूर्यते तूरम् “ नाम्युपान्त्य-" ॥ ५। १ । ५४ ॥ इति कः ॥ ५ ॥ स्मरस्य ध्वज इव स्मरध्वजः ॥ ६॥ . ततं वीणाप्रभृतिकं तन्त्रीतननात् ततं, प्रभृतिशब्दात् सैरन्ध्रीरावणहस्तकिन्नरादि ॥ १ ॥
तालप्रभृतिकं घनम् ॥ २० ॥ कांस्यमयं वादिनं तालः, प्रभृतिग्रहणात् कांस्यतालादि, हन्यते धनम् ॥ १ ॥ ॥२०० ॥
वंशादिकं तु शुषिरं आदिग्रहणाद् नालिकानलकादि, शुषिश्छिद्रं विद्यतेऽस्य शुषिरम् ॥ १ ॥