________________
११८
अभिधानचिन्तामणौ
स्थीयतेऽस्मिन्निति स्थानं प्रदेशः, नाट्यस्य नृत्तस्य, रमते जनोऽत्र रङ्गः “गम्यमि-" ॥ ( उणा-९२ ) ॥ इति गः, रजत्यऽस्मिन् जन इति वा ॥ १ ॥
पूर्वरङ्ग उपक्रमः। नाट्यस्य उपक्रमः प्रारम्भः, रजति अस्मिन् जन इति रङ्गो मण्डपो नाट्यं वा बुद्धिस्थम् , पूर्वो रङ्गे पूर्वरङ्गः प्रत्याहारादिः “ नाम नाम्नैकार्थ्ये समासो बहुलम्" ॥३। १ । १८ ॥ इति समासः, रङ्गात् पूर्व इति वा राजदन्तादित्वात् पूर्वनिपातः, श्रीहर्षस्तु
रङ्गशब्देन तौर्यत्रिकं ब्रुवन् नाट्ये रङ्गप्रयोगस्य पूर्वतां मन्यमानः पूर्वश्चासौ रङ्गश्चेति समासममस्त ॥ १॥
__ अङ्गहारोऽङ्गविक्षेपः
अङ्गानां हरणं स्थानात् स्थानान्तरनयनं अङ्गहारः अङ्गानां हार इव, शोभाजनकत्वात् , अथवा हरस्यायं हारो हरेणाभिनीतत्वात् , अङ्गप्रधानो हारः अङ्गहारः स्थिरहस्तादिात्रिंशद्भेदः ॥ १ ॥ अङ्गानां विक्षेपः अङ्गविक्षेपः ॥ २ ॥
व्यञ्जकोऽभिनयः समौ ॥ १९६ ॥ व्यनक्ति भावान् व्यञ्जकः ॥ १॥ आभिमुख्यं नीयन्तेऽर्था अनेनेति अभिनयो भावसूचकः ॥ २ ॥ १९६ ॥
स चतुर्विध आहार्यो रचितो भूषणादिना ।।
वचसा वाचिकोऽङ्गेनाऽऽङ्गिकः सत्त्वेन सात्त्विकः ॥ १९७ ॥ सोऽभिनय आहार्यादिभेदाच्चतुर्विधः, सत्त्वं मनो गुणो वा ॥ १९७ ॥
स्याद् नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवकारौ वीथ्यकेहामृगा इति ॥ १९८ ॥
अभिनेयप्रकाराः स्युः नाटयति नर्तयति सामाजिकमनांसि इति नाटकम् ॥ १॥ वस्त्वादिकं काव्याभिधेयं आत्मशक्त्योत्पाद्य प्रकुरुते यत्र काव्येन तत् प्रकरणम् ॥ १॥ एकमखेनैव भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा अत्रेति भाणः, पंक्लीबलिङ्गः ॥ १ ॥ एकस्य बहूनां वा चरितं प्रहस्यते यत्र तत् प्रहसनम् ॥ १ ॥ डिमो डिम्बो विद्रव इति पर्यायास्तद्योगाद् अयं डिमः ॥ १ ॥ व्यायामे युद्धनियद्धप्राये युज्यन्ते पुरुषा अत्र व्यायोगः ॥ १॥ समवक्रियन्ते संघातीक्रियन्ते नेतारोऽत्र समवकारः ॥ १ ॥ सर्वेषां रसानां लक्षणानां च वीथी श्रेणीव वीथी ॥१॥ उत्क्रमणोन्मुखी सृष्टिर्जीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियः, ता