SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ विरुद्धं प्रलपनं विप्रलापः ॥ १ ॥ अपलापस्तु निह्नवः । अपलपनं अपलापः ॥ १ ॥ निह्नवनं निह्नवः ॥ २ ॥ सुप्रलापः सुवचनं सुष्ठु प्रलपनम् ॥ १॥ संदेशवाक् तु वाचिकम् ॥ १९० ॥ अन्येन अन्यो अन्यस्मै यदाह-त्वयैवं कर्तव्यमिति, स संदेशः, तद्रूपा. वाक् संदेशवाक् , संदिष्टा वाग् वाचिकं “वाच इकण्"॥७।२।१६८॥ इति स्वार्थे इकण् ॥ १ ॥ १९० ॥ आज्ञा शिष्टिर्निराङ्निभ्यो देशो नियोगशासने । .. अववादोऽपि आज्ञापनं आज्ञा , चुरादिणिचोऽनित्यत्वात् “ उपसर्गादातः” ॥५।३।११०॥ इत्यङ् ॥ १॥ शासनं शिष्टिः ॥२॥ निरः, आङः, नेश्च परो देशः निःशेषेण, समन्तात् , नितरां देशनं निर्देशः, आदेशः, निदेशः ॥ ३ ॥ ४ ॥ ५ ॥ नियोजन नियोगः ॥ ६ ॥ शिष्यते शासनम् ॥ ७ ॥ अवनम्य वदनं अववादः ॥ ८ ॥ अथाऽऽहूय प्रेषणं प्रतिशासनम् ॥ १९१ ॥ स्पष्टम् ॥ १ ॥ १९१ ॥ संवित् संधाऽऽस्थाभ्युपायः संप्रत्याभ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः प्रतिज्ञाऽऽगूश्च संगरः ॥ १९२ ॥ पक्षोक्तिः प्रकृताङ्गीकारश्चेत्युभयी हि प्रतिज्ञा । संवेदनं संवित् ॥१॥ संधानं संधा ।। २॥ आस्थानं आस्था ॥ ३ ॥ अभ्युपायनं अभ्युपायः ॥ ४ ॥ समः, प्रतेः, आडश्च परः श्रवः संश्रवः, प्रतिश्रवः, आश्रवः॥ ५ ॥ ६ ॥ ७ ॥ अङ्गीकरणं अङ्गीकारः ॥ ८ ॥ अभ्युपगमनं अभ्पुपगमः ॥ ९ ॥ प्रतिज्ञानं प्रतिज्ञा ॥ १० ॥ आगच्छत्यनया पौरुषं आगूः, स्त्रीलिङ्गः “ भ्रमिगमितनिभ्यो डित्"। (उणा-८४३) ॥ इति ऊः ॥ ११ ॥ संगरणं संगरः ।। १२ । समाधिरपि ॥ १९२ ॥ गीतनृत्यवाद्यत्रयं नाट्यं तौर्यत्रिकं च तत् । गीतादित्रयं समुदितं नाट्यं नटस्य कर्म ॥१॥ तूर्यस्येदं त्रिप्रमाणं तौर्यत्रिक ॥ २ ॥ वक्ष्यमाणं नाट्यं नटनमात्रम् ॥ संगीतं प्रेक्षणार्थेऽस्मिन्
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy