SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौस्तवनं स्तोत्रम् “त्रद्" ॥ ( उणा-४४६) ॥ इति त्रट् ॥ ४ ॥ अर्थस्य . प्रशस्यस्य वदनं अर्थवादः ॥ ९ ॥ सा तु मिथ्या विकत्थनम् । सा वर्णना, मिथ्या असत्यार्था, विरुद्धं कत्थनं विकत्थनम् ॥ १ ॥ जनप्रवादः कौलीनं विगानं वचनीयता ॥ १८४ ॥ जनस्य प्रतीपो वादः जनप्रवादः ॥१॥ कुलस्य जल्पः कोलीनं "कुलाजल्पे" ॥७॥१८६॥ इति ईनञ् ॥ २ ॥ विरुद्धं गीयते विगानम् ॥ ३ ॥ वचनीयस्य भावो वचनीयता ॥ ४ ॥ १८४ ॥ स्यादवर्ण उपक्रोशो वादो निष्पर्यपात् परः। . गर्हणा धिक्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥१८५॥ विपरीतं वर्णनं अवर्णः ॥ १ ॥ उपक्रोशनं उपक्रोशः ॥ २ ॥ निरः, परेः, अपाच्चोपसर्गात् परो वादः निर्वादः, परिवादः, अपवादः ॥ ३ ॥ ४ ॥ ५ ॥ गहणं गर्हणा, गोऽपि ॥ ६ ॥ धिक्करणं धिक्किया ॥ ७ ॥ निन्दनं निन्दा ॥ ८ ॥ कुत्सनं कुत्सा ॥९॥ क्षेपणं क्षेपः ॥ १० ॥ जुगुप्स्यते जुगुप्सनम् , जुगुप्साऽपि ॥ ११ ॥ १८५॥ आक्रोशाभीषङ्गाक्षेपाः शापः आक्रोशनं आक्रोशः ॥ १॥ अभिषजनं पराभिमुख्येन वाक्ययोजनं अभीषङ्गः “घञ्युपसर्गस्य बहुलम्" ॥३।२।८६॥ इति दीर्घः ॥ २ ॥ आक्षेपणं आक्षेपः ॥ ३ ॥ शपनं शापः ॥ ४ ॥ स क्षारणा रते स शापः, रते मैथुनविषये, क्षारणा; मैथुनमुद्दिश्य गालीत्यर्थः। दूषणमित्येके । आक्षारणाऽपि ॥ १॥ विरुद्धशंसनं गालिः विरुद्ध शंसनं अवद्योद्भावनम् , गालयते गुणान् गालिः स्त्रीलिङ्गः ॥ २ ॥ आशीमङ्गलशंसनम् ॥ १८६ ॥ आशासनं आशीः “आङः ॥४।४।१२०॥ इति क्विपि इसादेशः, मङ्गलस्य शंसनं मङ्गलशंसनम् ॥ १ ॥ १८६ ॥ श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा श्लोक्यते श्लोकः ॥ १ ॥ कीर्त्यते कीर्तिः “ सातिहेतियूतिजूतिज्ञप्तिकीर्ति" ॥५।३।९४॥ इति साधुः ॥ २ ॥ अश्नुते व्याप्नोति दिशः यशः “अशेर्यश्चादिः” ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy