SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ प्रियं च तत् सत्यं च प्रियसत्यं वचनम्, सुष्ठु नृत्यति सतां मनोऽनेनेति सूनृतं, स्थादित्वात् के “ घञ्युपसर्गस्य- " ॥ ३।२।८६ ॥ इति बाहुलकाद दीर्घः ॥ १ ॥ सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् ॥ १७८॥ यथास्थितं च सद्भूते ११२ सति साधु सत्यम् ॥ १ ॥ समञ्चति सम्यक्, क्विपि "सहसमः सनिसमी" ॥३।२।१२३॥ इति सम्यादेशः ॥ २ ॥ सम्यगेव समीचीनम् " अदिस्त्रियां वाञ्चः ॥ ७।१।१०७॥ इतीनः॥३॥ इयर्ति गच्छति जनः प्रत्ययमत्र ऋतम् " शीरी - " ( उणा२०१) ॥ इति तक् ॥ ४ ॥ तथा साधु तथ्यम् ॥ ५ ॥ यथावत् तथाऽत्र यथातथम् ॥६॥१७८॥ यथावत् स्थितमत्र यथास्थितम् ॥ ७॥ सच्च तद् भूतं च सद्भूतं तत्र ॥ ८ ॥ अलीके तु वितथानृते । अलति वारयति सद्गतिं अलीकम् “स्यमिकषि - " ॥ ( उणा - ४६ ) ॥ इतीकः, तत्र ॥ १ ॥ विगतं तथा सत्यमत्र वितथम् ॥ २ ॥ न ऋतं अनृतम्, यौगिकत्वात् असत्यम्, सत्येतरद् इत्यादि ॥ ३ ॥ मृषा मिथ्या वा अव्यये ॥ अथ क्लिष्टं संकुलं च परस्परपराहतम् ।। १७९ ॥ क्लिष्टं संकुलं च अन्योऽन्यविरुद्धम्, यथा अन्धो मणिमुपाविध्यद् तमनङ्गुलिरासदत् । तमग्रीवः प्रत्यमुञ्चत् तमजिह्वोऽभ्यपूजयत् ॥ १ ॥ १ ॥ २ ॥ १७९ ॥ सान्त्वं सुमधुरं सान्त्व्यतेऽनेन सान्त्वम्, सुष्ठु मधुरं सुमधुरम् ॥ १॥ ग्राम्यमश्लीलं "" ग्रामे भवं ग्राम्यं, " ग्रामादनिञ् च ॥ ६ ॥ ३ । ९ ॥ इति यः ॥ १ ॥ न श्रियं लाति अश्लीलम्, न श्रीरस्यास्तीति वा, सिध्मादित्वाद् ले, ऋफिडादित्वाद् रस्य लः, तत्तु व्रीडाजुगुप्साऽमङ्गलव्यञ्जकत्वेन त्रेधा । अलङ्कारकृतां तु ग्राम्यं अश्लीलं च पृथगेव ॥ २॥ लिष्टमस्फुटम् । म्लेच्छति स्म लिष्टम् " क्षुब्धविरिब्ध " ||४|४|७० ॥ इति साधुः, अस्फुटं अस्पष्टम् ॥ १ ॥ लुप्तवर्णपदं ग्रस्तं लुप्ता वर्णाः पदानि चात्र लुप्तवर्णपदम् ग्रस्यते स्म प्रस्तम् ॥ १ ॥ असंपूर्णोचारितं ध्वस्तं लुप्तवर्णपदमित्यन्यः ॥ ,
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy