SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौता कीस मुद्धडमुही हिअयंमि निवेसये दिदिम् ॥ १॥ जनश्रुतिः किंवदन्ती जनेभ्यः श्रूयते जनश्रुतिः ॥ १॥ किं वदति जनोऽत्र किंवदन्ती " तृजिभूवदि-” ॥ ( उणा-२२१) इति टिदन्तः, यद्वा, उद्यते वदन्तिः कथा “वद्यवि." ॥ ( उणा-६६५)॥ इत्यन्तिः, कुत्सिता वदन्तिः ङ्यां किंवदन्ती ॥२॥ वातैतिचं पुरातनी ॥ १७३ ॥ पुरातनी वार्ता, इतिह इति निपातसमुदायः उपदेशपारम्पर्य वर्तते, इतिह इत्येव ऐतिह्यम् , भेषजादित्वात् ट्यण् ॥ १ ॥ १७३ ॥ वार्ता प्रवृत्तिवृत्तान्त उदन्तः वृत्तिर्लोकवृत्तं अस्त्यस्यां वार्ता “ प्रज्ञाश्रद्धाऽर्चावृत्तेणः ” ॥ ७॥२।३३। इति णः ॥ १॥ प्रवर्तते जनोऽनया प्रवृत्तिः ॥ २ ॥ वृत्तस्य आचरितस्यान्तोऽत्र वृत्तान्तः ॥ ३ ॥ उद्यते उदन्तः “ सीमन्तहेमन्त-" ॥ (उणा-२२२) इत्यादिशब्दाद् निपात्यते ॥ ४ ॥ अथाऽऽहयोऽभिधा। गोत्रसंज्ञानामधेयाऽऽख्याऽऽहाऽभिख्याश्च नाम च ॥१७४॥ आहूयतेऽनेन आह्वयः " ह्वः समाह्वयाह्वयौ द्यूतनाम्नोः ” ॥ ५॥३॥४१॥ इति अलन्तो निपात्यते ॥१॥ अभिधीयतेऽनया आभिधा ॥२॥ गूयतेऽनेन गोत्रम् “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः ॥ ३ ॥ संज्ञायतेऽनया संज्ञा ॥ ४ ॥नाम एव नामधेयम् “ नामरूपभागाद् धेयः" ॥७।२।१५८॥ इति धेयः ॥ ५ ॥ आख्यायतेऽनया आख्या ॥ ६ ॥ आहूयतेऽनया आह्वा ॥ ७ ॥ अभिख्यायतेऽनया अभिख्या ॥ ८ ॥ नमत्यनेन नाम, पुंक्लीवलिङ्गः “ सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनन्तो निपात्यते ॥ ९ ॥ १७४ ॥ संबोधनमामन्त्रणम् संबोध्यतेऽनेन संबोधनम् ॥ १ ॥ आमन्त्र्यतेऽनेन आमन्त्रणम् ॥ २ ॥ आह्वानं त्वभिमन्त्रणम् । आकारणं हवो इतिः ह्वानं हवः, “ भावेऽनुपसर्गाद् " ॥ ५।३।४५ ॥ इत्यल् , वश्चोत्वम् ॥५॥ शेषश्चात्र-हूतौ हक्कारकाऽऽकारौ ॥ संहूतिर्बहुभिः कृता ॥ १७५ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy