________________
२ देवकाण्डः ।
१०९
. निबन्धवृत्ती अन्वर्थे
निबध्यते विशेषोऽस्मिन् निबन्धः ॥ १॥ वर्ततेऽर्थावगमोऽत्रेति वृत्तिः ॥१॥ अनुगतोऽर्थोऽनयोरन्वर्थे ॥
संग्रहस्तु समाहृतिः । संगृह्यन्ते वाच्यविशेषा अनेन संग्रहः ॥ १ ॥ समाह्रियन्तेऽनया समाहृतिः ॥ २ ॥
परिशिष्टपद्धत्यादीन् पथाऽनेन समुन्नयेत् ॥ १७१ ॥ परिशिष्यत इति परिशिष्टम् ॥ १॥ अनवच्छिन्नक्रमत्वात् पद्धतिरिव पद्धतिः ॥१॥ आदिग्रहणाद् अध्यायोच्छ्वासाङ्कसर्गादयो गृह्यन्ते, पथाऽनेनेति अन्वर्थमार्गेणैव ॥ १७१ ॥
कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी । पदार्थान् गम्यान् करोति कारिका, शेषं सुगमम् ॥ १ ॥
कलन्दिका सर्वविद्या कलन्दी भाजनविशेषः तत्प्रतिकृतिः कलन्दिका, डलयोरैक्ये कडन्दिका अपि, सर्वा आन्वीक्षिक्याद्या विद्या अस्यां सर्वविद्या ॥ १॥
निघण्टुर्नामसंग्रहः ॥ १७२ ॥ नितरां घण्ट्यन्ते एकत्र भाष्यन्ते शब्दा अनेन निघण्टुः “ भृमृतृत्सरि-" ॥ ( उणा-७१६ ) ॥ इति बहुवचनाद् उः, पुंस्ययम् , यद् वैजयन्ती-" नामशास्त्रे निघण्टुर्ना,” व्याडिस्तु-"अर्थान् निघण्टयत्यस्माद् निघण्टुः परिकीर्तितः। पुनपुंसकयोः स स्यात्" इति ॥ १ ॥ नाम्नां संग्रहो नामसंग्रहः ॥ २ ॥ १७२ ॥
इतिहासः पुरावृत्तं इति एवमर्थे, ह किलार्थे, इति ह आसीदत्र इतिहासः ॥ १॥ पुरा वृत्तं पूर्वचरितम् ॥ २ ॥
प्रवल्हिका प्रहेलिका। प्रवल्हते प्राधान्यं भजते प्रवल्हिका ॥ १ ॥ प्रहेलयति अभिप्रायं सूचयति प्रहेलिका । सा शाब्दी आर्थी च । शाब्दी यथा
पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् ।
ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥ १॥ आर्थी यथाजइ सासुआइ भणिआ पियवासघरंमि दीवयं देसु । १५