SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १०८ अभिधानचिन्तामणौ सूत्रं सूचनकृद् सूत्र्यते प्रथ्यत इति सूत्रं पुंक्तीबलिङ्गः, सूचनाद् वा “पुत्रादयः" ॥ ( उणा४५५ ) ॥ इति निपात्यते; सुवतीति वा “ सूमूखन्युषिभ्यः कित्” ॥ ( उणा४४९ ) ॥ इति त्रट , सूचनं करोति सूचनकृत् ॥ १॥ भाष्यं सूत्रोक्तार्थप्रपञ्चकम् । भाष्यत इति भाष्यम् , सूत्रे उक्तमर्थ प्रपञ्चयति ॥ १ ॥ प्रस्तावस्तु प्रकरण प्रस्तूयते प्रस्तावः “प्रात् स्तुद्रुस्तोः” ॥ ५। ३ । ६७ ॥ इति घञ् ॥ १॥ प्रक्रियतेऽस्मिन् प्रकरणम् ॥२॥ निरुक्तं पदभञ्जनम् ॥ १६८ ॥ वर्णागमादिभिः पदानां निर्वचनं निरुक्तम् ॥१॥ पदानि भज्यन्तेऽस्मिनिति पदभञ्जनम् ॥ २ ॥ १६८ ॥ अवान्तरप्रकरणविश्रामे शीघ्रपाठतः। आह्निकम् । अवान्तरप्रकरणानां विश्रामः तत्र शीघ्रपाठात् अह्ना निवृत्तमिव आह्निकम् , " निवृत्ते" ॥ ६ । ४ । १०५ ॥ इतीकण् ॥ १ ॥ अधिकरणं त्वेकन्यायोपपादनम् ॥ १६९ ॥ अधिक्रियतेऽस्मिन् अधिकरणम् , एकन्यायमुपपादयति एकन्यायोपपादनम् ॥१॥ १६९ ॥ उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् । उक्तानां अनुक्तानां दुरुक्तानां चार्थानां चिन्तां करोतीत्येवंशीलम् , वृत्तिः प्रयोजनमस्य वार्तिकम् ॥१॥ टीका निरन्तरव्याख्या टीकयति गमयत्यर्थान् टीका, सुषमाणां विषमाणां च निरन्तरं व्याख्या यस्यां सा तथा ॥१॥ पञ्जिका पदभञ्जिका ॥ १७० ॥ पञ्च्यन्ते व्यक्तीक्रियन्ते पदार्था अनया पञ्चिका “ नाम्नि पुंसि च ॥ ५।३।१२१ ॥ इति णकः, पृषोदरादित्वाद् जत्वे पञ्जिका, अर्थाद् विषमाण्येव पदानि भनक्ति पदभञ्जिका ॥ १ ॥ १७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy