SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । १०७ ओमेव ओङ्कारः “ वर्णाव्ययात् स्वरूपे कारः ” ॥ ७॥२।१५६ ॥ इति कार :॥१॥ प्रणूयते प्रस्तूयते प्रणवः ॥२॥ शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ १६४ ॥ षडङ्गानि शिक्ष्यते वर्णविवेकोऽनया शिक्षा, यद् वाचस्पतिः-“शिक्षा वर्णविवेचिका" ॥१॥ कर्मणां सिद्धरूपः प्रयोगः कल्प्यतेऽवगम्यतेऽनेन कल्पः, यद् वाचस्पतिः सिद्धरूपः प्रयोगो यैः कर्मणामवगम्यते । ते कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते ॥ १ ॥ २ ॥ व्याक्रियन्तेऽन्वाख्यायन्ते शब्दा अनेन व्याकरणम् । यदाह प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः । पदान्वाख्यानकरणं शास्त्रं व्याकरणं विदुः ॥ १॥ ३ ॥ छाद्यतेऽनेन प्रस्ताराद् भूरिति च्छन्दः, छन्दोविचितिः॥४॥ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थों ज्योतिः ज्योतिषम् ॥ ५॥ वर्णागमादिभिर्निर्वचनं निरुक्तिः निरुकम् ॥ ६ ॥ १६४ ॥ अङ्ग्यते ज्ञायतेऽमीभिरित्यङ्गानि उपकारकाणि ॥ १॥ धर्मशास्त्रं स्यात् स्मृतिधर्मसंहिता। धर्मप्रतिपादकं शास्त्रं धर्मशास्त्रम् ॥ १॥ उच्छन्नविप्रकीर्णशाखानां मन्वा.. दिभिः स्मरणात् स्मृतिः ॥ २ ॥ धर्मः संधीयतेऽस्यां धर्मसंहिता ॥ ३ ॥ . आन्वीक्षिकी तर्कविद्या प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणं अन्वीक्षा सा प्रयोजनमस्यामान्वीक्षिकी ॥ १॥ तर्कप्रधाना विद्या तर्कविद्या ॥२॥ मीमांसा तु विचारणा ॥ १६५ ॥ मीमांस्यतेऽनया मीमांसा ॥ १ ॥ विचार्यतेऽनया विचारणा ॥२॥१६५॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ १६६ ॥ . सर्गः सृष्टिः ॥१॥ प्रतीपः सर्गः प्रतिसर्गः संहारः ॥२॥ वंशः सूर्यवंशादिः ॥३॥ मन्वन्तराणि खायंभुवादीनि चतुर्दश ॥ ४ ॥ वंशादनु वंशः वंशानुवंशः सूर्यवंशवंशादिः, तस्य चरितम् ॥ ५ ॥ पुरापि न नवं पुराणम् ॥ १॥ १६६ ॥ षडङ्गी वेदाश्चत्वारो मीमांसाऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणं चं विद्या एताश्चतुर्दश ॥ १६७ ॥ स्पष्टम् ॥ १६७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy