________________
१०६
अभिधानचिन्तामणौ
यल्लोके यथाsस्ति, यथा वा नास्ति; अथवा स्याद्वादाभिप्रायेण तदेवाऽस्ति नास्तीति प्रवदति अस्ति नास्तिप्रवादम् ॥ ४ ॥ मतिज्ञानादिपञ्चकं सभेदं प्रवदतीति ज्ञानप्रवादम् ॥ ५ ॥ सत्यं संयमः, सत्यवचनं वा; तत् सभेदं सप्रतिपक्षं च यत् प्रवदति तत् सत्यप्रवादम् ॥ ६ ॥ नयदर्शनैरात्मानं प्रवदति आत्मप्रवादम् ॥ ७ ॥ ज्ञानावरणाद्यष्टविधं कर्म प्रकृतिस्थित्यनुभागप्रदेशादिभेदैरन्यैश्चोत्तरभेदैर्भिन्नं प्रवदति कर्मप्रवादम् ॥ ८ ॥ १६१ ॥ सर्वप्रत्याख्यानस्वरूपं प्रवदति प्रत्याख्यानप्रवादम्, तदेकदेशः प्रत्याख्यानम्, भमिवत् ॥ ९ ॥ विद्यातिशयान् प्रवदति विद्याप्रवादम् ॥ १० ॥ कल्याणफलहेतुत्वात् कल्याणम्, अवन्ध्यमिति चोच्यते ॥ ११ ॥ आयुः प्राविधानं सर्वे सभेदं, अन्ये च प्राणा वर्णिता यत्र तत् प्राणावायम् ॥ १२ ॥ कायिक्यादयः संयमाद्याश्च क्रिया विशाला सभेदा यत्र तत् क्रियाविशालम् ॥१३॥ इह लोके श्रुतलोके वा बिन्दुरिवाऽक्षरस्य सर्वोत्तमं सर्वाक्षरसंनिपातपरिनिष्ठितत्वेन लोकबिन्दुसारम् ॥ १४ ॥ १६२ ॥
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदः
""
छन्दः,
सुष्ठु आ समन्तात् अधीयते स्वाध्यायः “ इङोऽपादाने तु टि वा ॥ ५ | ३ | १९ ॥ इति घञ् ॥ १ ॥ श्रूयते श्रुतिः “ श्रवादिभ्यः ' ॥ ५ । ३ । ९२ ॥ इति क्तिः ॥ २ ॥ आम्नायते पारम्पर्येणा नायः ॥ ३ ॥ छादयति पापं क्लीबलिङ्गः, “ छदिवहिभ्यां छन्दोधौ च " ॥ ( उणा - ९५४ ) ॥ इत्यस् ॥ ४ ॥ विन्दत्यनेन धर्मं वेदः ॥ ५ ॥
त्रयी पुनः । ऋग्यजुःसामवेदाः स्युः
त्रयोsarवा अस्याः त्रयीं । ऋच्यते स्तूयतेऽनया ऋक् स्त्रीलिङ्गः ॥ १॥ इज्यतेऽनेन यजुः “ रुद्यर्ति - " ॥ ( उणा - ९९७ ) इत्युस् ॥ २ ॥ स्यति पापं साम, क्लीबलिङ्गः ॥३॥ ऋग्यजुः सामानि च ते वेदाश्चेति विग्रहः ॥ १ ॥
अथर्वा तु तदुद्धृतिः ॥ १६३ ॥
न थर्वति अथर्वा पुंलिङ्गः " श्वन्मातरिश्वन्- " ॥ ( उणा - ९०२ ) ॥ इत्यन्नन्तो निपात्यते, तेभ्य ऋग्यजुः सामवेदेभ्य उद्धृतिरुद्धारस्तदुद्धृतिः ॥ १॥ १६३ ॥ वेदान्तः स्यादुपनिषद्
वेदस्याsन्तो निश्चयो वेदान्तः ||१|| उप समीपे ब्रह्मणो निषीदन्त्यनया उपनिषद् ॥ २ ॥
ओङ्कारप्रणवैौ समौ |
"
अवति विघ्नाद् ओम् अव्ययम् “ अवेर्मः ॥ ( उणा - ९३३ ) ॥ इति मः,