________________
२ देवकाण्डः ।
१०५
श्टयो दर्शनानि तासां वदनं दृष्टिवादः, दृष्टीनां पातो यत्र असौ दृष्टिपातोऽपि, सर्वनयदृष्टय इहाऽऽख्यायन्त इत्यर्थः। तथा चाह-"दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणा आख्यायते” ॥
द्वादशाङ्गी स्याद् गणिपिटकावया ॥ १५९ ॥ द्वादशानामाचारादीनां दृष्टिवादान्तानामङ्गानां समाहारो द्वादशाङ्गी ॥१॥ गुणानां साधूनां वा गणो विद्यतेऽस्य गणी आचार्यः, गणिर्वा साङ्गप्रवचनाध्येता, तस्य पिटकमिव सर्वार्थरत्नाधारत्वात् गणिपिटकं तदाह्वया, द्वादशाङ्गी गणिपिटकमुच्यत इत्यर्थः ॥ २ ॥ १५९ ॥
तत्र दृष्टिवादभेदानाह-- ___ परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च ।
स्युर्दृष्टिवादभेदाः परिकर्म च सूत्रं च पूर्वानुयोगश्च पूर्वगतं च चूलिका चेति द्वन्द्वः । सूत्राणि ग्रहणयोग्यतासंपादनसमर्थानि परिकर्माणि गणितपरिकर्मवत्॥१॥सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि ॥२॥ अनुरूपोऽनुकूलो वा योगोऽनुयोगः, सूत्रस्य निजेनाभिधेयेन सार्धे अनुरूपः संबन्धः, स च मूलप्रथमानुयोगो गण्डिकानुयोगश्चेति द्विविधः; इह धर्मप्रणयनाद् मूलं तावत् तीर्थकराः, तेषां प्रथमसम्यक्त्वाऽवाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः स एव पूर्वानुयोगः, स च गण्डिकानुयोगोऽस्य उपलक्षणम् , इहैकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते, तासामनुयोगोऽर्थकथनविधिः गण्डिकानुयोगः ॥ ३ ॥ पूर्वाणां गतं ज्ञानमस्मिन् पूर्वगतम् ॥ ४ ॥ इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगोक्तानुफ्तार्थसंग्रहपरा ग्रन्थपद्धतयश्चूला इव चूलिकाः, एताश्चाद्यानां चतुर्णा पूर्वाणां भवन्ति, न शेषाणाम् ॥ ५॥ एते परिकर्मादयः पञ्चापि दृष्टिवादभेदाः ॥
पूर्वाणि चतुर्दशापि पूर्वगते ॥ १६० ॥
उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । • अस्तेर्ज्ञानात् सत्यात् तदात्मनः कर्मणश्च परम् ॥ १६१ ॥ . प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च ।।
प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥१६२॥ सर्वाङ्गेभ्यः पूर्वं तीर्थकरैरभिहितत्वात् पूर्वाणि, तानि यथा-सर्वद्रव्याणां पर्यायाणां चोत्पादप्रज्ञप्तिहेतुरुत्पादम् ॥ १ ॥ सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्रं परिमाणं वर्ण्यते यत्र तद् अग्रायणीयम् ॥ २ ॥ जीवानामजीवानां च सकर्मेतराणां वीर्य प्रवदति वीर्यप्रवादम् ॥ ३ ॥ अस्तीति नास्तेरुपलक्षणम् , ततो