________________
अभिधानचिन्तामणौ___राद्धसिद्धकृतेभ्योऽन्त आप्तोक्तिः समयागमौ ॥१५६॥
राद्धशब्दात् , सिद्धशब्दात् , कृतशब्दाच परोऽन्तः राद्धान्तः, सिद्धान्तः, कृतान्तः, राद्धः, सिद्धः, कृतश्च अन्तो निश्चयोऽस्येति कृत्वा ॥ १ ॥ २ ॥ ३ ॥ आप्तानामुक्तिः आप्तोक्तिः ॥ ४ ॥ समेति संगच्छते समयः ॥ ५ ॥ आगम्यतआगमः ॥ ६॥ १५६ ॥
आचाराङ्गं सूत्रकृतं स्थानाङ्ग समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञाताधर्मकथाऽपि च ॥ १५७ ॥ .. उपासकान्तकृदनुत्तरोपपातिकाद् दशाः। . प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ १५८ ॥
इत्येकादश सोपाङ्गान्यङ्गानि
आचरणं आचारः, आचर्यत इति वा; शिष्टाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः; तत्प्रतिपादको ग्रन्थोऽपि आचारः, स चासौ अङ्गं च आचाराङ्गम् ॥ १ ॥ सूचनात् सूत्रं, सूत्रेण खपरसमयसूचनेन कृतं सूत्रकृतम् ॥ २ ॥ तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं, एकादिदशान्तसंख्याभेदो वा स्थानं, तत्प्रतिपादको ग्रन्थोऽपि स्थानम् , तच्च तदङ्गं च स्थामाङ्गम् ॥ ३ ॥ समवायनं समवायः, एकादिशतान्तसंख्यासमाविष्टानां पदार्थानां संग्रहः, तद्धेतुश्च ग्रन्थोऽपि समवायः ॥ ४ ॥ भगवतीति पूजाऽभिधानं व्याख्याप्रज्ञप्तेः पञ्चमाङ्गस्य, सा चासौ अङ्गं च भगवत्यङ्गम् ॥ ५ ॥ ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा, तत्प्रतिपादको ग्रन्थोऽपि तथा ॥ ६ ॥ १५७ ॥ उपासकाः श्रावकाः, तद्गतक्रियाकलापप्रतिबद्धा · दशा दशाऽध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद्ग्रन्थनाम ॥७॥अन्तो विनाशः स च कर्मणः, तत्फलभूतस्य वा संसारस्य; तं कुर्वन्ति ये तीर्थकरादयस्तेऽन्तकृतः, तेषां दशाः प्रथमवर्गे दशाध्ययनानि इति तत्संख्यया अन्तकृद्दशाः ॥८॥न विद्यते उत्तरः प्रधानोऽस्मात् इत्यनुत्तरः, उपपतन उपपातो जन्म, अनुत्तरः प्रधानः संसारेऽन्यस्य तथाविधस्याऽभावात् , उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयाद्यनुत्तरविमानपञ्चकजन्मानो देवाः, तद्वक्तव्य. ताप्रतिबद्धा दशा दशाऽध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः ॥ ९ ॥ प्रश्नः पृच्छा तन्निर्वचनं व्याकरणं प्रश्नव्याकरणं, तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् ॥ १० ॥ विपचनं विपाकः शुभाऽशुभकर्मपरिणामः, तत्प्रतिपादकं श्रुतं विपाकश्रुतम् ॥ ११ ॥ १५८ ॥ इत्येकादश प्रवचनपुरुषस्य अङ्गानीवाऽङ्गानि सहोपाझैरौपपातिकादिभिर्वर्तन्ते सोपाङ्गानि ॥
द्वादशं पुनः। दृष्टिवादः