________________
२ देवकाण्डः ।
१०३
च्छुप्यते स्पृश्यते अच्छुप्ता ॥ १४ ॥ मनसि भवा मानसी ॥ १५॥ मानसी एव मानसिका, महती चासौ मानसिका च महामानसिका ॥ १६ ॥ १५४ ॥
वाग् ब्राह्मी भारती गौगीर्वाणी भाषा सरखती ।
श्रुतदेवी उच्यते वाक् “दिद्युद्दद्द-" ॥ ५। २ । ८३ ॥ इति क्विबन्तो निपात्यते ॥१॥ ब्रह्मण इयं ब्राह्मी "तस्येदम् ॥ ६ । ३ । १६० ॥ इत्यणप्रत्यये "ब्रह्मणः" ॥ ७ । ४ । ५७ ॥ इत्यन्तखरादिलोपः, अत एव शब्दब्रह्मणोऽधिष्ठात्र्याः पर्यायाएते, वचनादयस्त्वधिष्ठेयाः ॥ २॥ भरतानां नटानामियं देवता भारती, भरतानां ऋत्विजां स्तुतिलक्षणां तैरवतारितत्वात् इति याज्ञिकाः, बिभर्तीति वा, पृषोदरादित्वात् ॥ ३ ॥ गच्छति गौः पुंस्त्रीलिङ्गः ॥ ४ ॥ गृणातीति गीः ॥५॥ वण्यते वाणिः “ कमिवमि-" ॥ ( उणा-६१८ ) ॥ इति णिः, ङ्यां वाणी ॥ ६ ॥ भाष्यते भाषा " क्वेटो गुरोर्व्यञ्जनात् " ॥ ५। ३ । १०६ ॥ इत्यः ॥ ७॥ सरः प्रसरणमस्त्यस्याः सरस्वती, सरो ज्ञानं विद्यतेऽस्यामिति वा ॥ ८॥ श्रुतस्य प्रवचनस्याऽधिठात्री देवी श्रुतदेवी ॥.९ ॥ एते वचःपर्याया अपि ॥
वचनं तु व्याहारो भाषितं वचः ॥ १५५ ॥
उच्यते वचनम् ॥ १॥ व्याह्रियते व्याहारः ॥२॥ भाष्यते भाषितम् ॥३॥ उच्यते वचः “अस्” ॥ ( उणा-९५२ ) इत्यस् ॥ ४ ॥ शेषश्चात्र
वचने स्यात् तु जल्पितम् । लपितोदितभणिताभिधानगदितानि च ॥ १५५ ॥
सविशेषणमाख्यातं वाक्यं त्याद्यन्तं पदमाख्यातं, तत् प्रयुज्यमानमप्रयुज्यमानं वा, प्रयुज्यमानैरप्रयुज्यमानैर्वा कादिभिर्विशेषणैः सहितम्--उच्यत इति वाक्यम् , यथा-धर्मो वो रक्षतु । अप्रयुज्यमानमाख्यातं यथा-शीलं ते खम् , अत्राऽस्तीति गम्यते । अप्रयुज्यमानविशेषणं यथा-प्रविश, अत्र गृहमिति गम्यते । अनयोरर्थात् प्रकरणाद् वाऽऽख्यातादेरवगमात् अप्रयोगः । आख्यातमित्यत्र चैकत्वस्य विवक्षितत्वात् 'ओदनं पच तव भविष्यति' इत्यादौ वाक्यभेदः ॥
स्त्याद्यन्तकं पदम् । स् इत्युत्सृष्टानुबन्धस्य सेर्ग्रहणम् , ति इत्युत्सृष्टानुबन्धस्य तिवः, स् च तिश्च स्ती तावादी येषां प्रत्ययानां ते स्त्यादयः, आदिशब्दः प्रत्येकमाभिसंबध्यते, तेन स्यादयः सुप्पर्यन्ताः, त्यादयश्च स्यामहिपर्यन्ता गृह्यन्ते, ते अन्ते यस्य तत् स्त्याद्यन्तकं, पद्यते गम्यतेऽर्थोऽनेनेति पदम् , वर्षादित्वाद् अल् ॥