________________
१०२
अभिधानचिन्तामणौ
सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ १५० ॥ तथा राहुलसूः सर्वार्थसिद्धो गोतमान्वयः । मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ १५१ ॥
शका अभिजनो निवासोऽस्य शाक्य: “शण्डिकादेर्ण्यः " ॥ ६।३।२१५ ॥ इति ण्यः, शाक्यः सिंह इव शाक्यसिंहः, शाक्योऽपि भीमवत् ॥ १ ॥ अर्कस्य बान्धवः सूर्यवंश्यत्वाद् अर्कबान्धवः ॥ २ ॥ १५० ॥ राहुलं सूते राहुलसूः ॥ ३ ॥ सर्वार्थेषु सिद्धो निष्पन्नः सर्वार्थसिद्धः, अत एव सिद्धार्थः, यच्छाश्वतः–“सिद्धार्थौ बुद्धसर्षपौ” ॥ ४ ॥ गोतमोऽन्वयेऽस्य गोतमान्वयः ॥ ५ ॥ मायाया देव्याः, शुद्धोदनस्य च राज्ञः, सुतो मायासुतः, शुद्धोदनसुतः, यौगिकत्वात् शौद्धोदनिरित्यादिः ॥ ६ ॥ ७ ॥ देवदत्ता प्रजाऽपत्यमस्य देवदत्ताप्रजः ॥ ८ ॥ १५१ ॥
असुरा दितिदनुजाः पातालौकः सुरारयः । पूर्वदेवाः शुक्रशिष्याः
अस्यन्ति देवान् असुराः “वाश्यसि - " ॥ ( उणा - ४२३) ॥ इत्युरः, सुरविरुद्धा बा, अनर्थवत् ; सुराया अपानाद् वा ॥ १ ॥ दितिः, दनुश्चासुरमातरौ ताभ्यां जाता दितिजाः, दनुजाश्च, यौगिकत्वात् दैतेयाः, दानवी इत्यादयः ॥ २ ॥ ३ ॥ पाताले ओको येषां ते पातालौकसः ॥ ४ ॥ सुराणामरयः सुरारयः ॥ ५ ॥ पूर्वे च ते देवाश्च पूर्वदेवाः, अनयाद् देवत्वाद् भ्रष्टा इति प्रसिद्धेः ॥ ६ ॥ शुकस्य शिष्याः शुक्रशिष्याः ॥ ७ ॥
विद्यादेव्यस्तु षोडश ॥ १५२ ॥
रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा ।
चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ।। १५३ ।। गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याऽच्छुप्ता मानसी महामानसिकेति ताः ॥१५४॥
रोहत्यवश्यं रोहिणी ॥ १ ॥ प्रकृष्टा ज्ञप्तिरस्याः प्रज्ञप्तिः ॥ २ ॥ वज्रमयी शृङ्खलाऽस्या वज्रशृङ्खला ॥ ३ ॥ कुलिशमयमङ्कुशमस्याः कुलिशाङ्कुशा ॥ ४ ॥ चक्रस्येश्वरी चक्रेश्वरी ॥ ५ ॥ नरेषु दत्तमस्या नरदत्ता ॥ ६ ॥ कालवर्णत्वात् काली ॥ ७ ॥ अथासौ महापरेति - असौ काली महाशब्दपरा महाकालीत्यर्थः ॥ ८ ॥ १५३॥ गौरी, गौरवर्णत्वात् ॥९॥ गां धारयतीति गान्धारी, पृषोदरादित्वात् ॥१०॥ सर्वेषात्राणां महत्यो ज्वाला अस्यां सर्वास्त्रमहाज्वाला ॥ ११ ॥ मनोरियं मानवी ॥ १२ ॥ वैरोपशान्त्यै अटयाऽस्या वैरोटया, पृषोदरादित्वात् ॥ १३ ॥ न पापेन