________________
२ देवकाण्डः ।
१०१
हंसो विश्वन्तरः शक्रो मैत्रीबलसुपारगौ ॥ १॥ अपुत्रो ब्राह्मणः कुम्भः कल्माषः पिण्डिजातकम् । अधिमुह्यं श्रेष्ठिजातं दमयन्ती महाकपिः ॥२॥ बोधिब्रह्मा महाबोधिर्वानरः शरभो रुरुः ।
क्षान्तिवादी च हस्ती च कुन्थुश्चेत्येवमादयः॥ ३ ॥ १५॥ दश पारमिताः प्रज्ञाद्या धारयति दशपारमिताधरः, यद् व्याडि:--
प्रज्ञा पारमिता तारा वृन्दा च जिनशक्तयः।
मारीची चतुदुर्वासा मारीचा वज्रकाल्यपि ॥१॥ .. द्वादशाऽक्षीण्यस्य द्वादशाक्षः ॥ १७ ॥ दश बलानि दानशीलक्षान्तिवीर्यध्यानशान्तिबलोपायप्रणिधानज्ञानलक्षणान्यस्य दशबलः ॥ १८ ॥ त्रयः काया निर्माणाद्या अस्य त्रिकायः ॥ १९ ॥ श्रिया योगविभूत्या घनो निबिडः, श्रिया घन इव वर्षिता वा श्रीघनः ॥ २० ॥ न विद्यते द्वयं ज्ञानार्थौ किन्त्वेकमेव ज्ञानमस्य अद्वयः ॥ २१ ॥ संपूर्णान्तं निष्पन्नं भद्रमस्य समन्तभद्रः ॥ २२ ॥ सम्यग् गुप्तः संगुप्तः, योगिनामगम्यत्वात् ॥ २३ ॥ दयैव कूचेः दयाकूर्चः, यदू व्याडि:"कोष्ठागारोऽभवत् कूर्ची निधिर्वा तेन तादृशः" ॥२४॥ विनयति शास्ति विनायकः ॥ २५ ॥ १४८ ॥ मारान् कामक्रोधादीन् , लोकान् भूरादीन् , खानि इन्द्रियाणि, जयति मारजित् , लोकजित् , खजित् ; बौद्धास्तु स्कन्धमारः, क्लेशमारः, मृत्युमारः, देवपुत्रमारश्चेति चतुरो मारानाहुः ॥ २६ ॥ २७ ॥ २८ ॥ धर्मेण राजते, धर्मस्य राजा वा धर्मराजः ॥ २९ ॥ विज्ञानं मातृकाऽस्य विज्ञानमातृकः ॥३०॥ महांश्चासौ मैत्रश्च महामैत्रः ॥ ३१ ॥ मुनीनामिन्द्रो मुनीन्द्रः, मुनिस्तु भीमवत् ॥ ३२॥ शेषश्चात्र
बुद्धे तु भगवान् योगी बुधो विज्ञानदेशनः ॥ महासत्त्वो लोकनाथो बोधिरहन सुनिश्चितः । गुणाब्धिर्विगतद्वन्द्वः ॥ बुद्धाः स्युः सप्त ते त्वमी ॥ १४९ ॥ विपश्यी शिखी विश्वभूः ककुच्छन्दश्च काञ्चनः ।
काश्यपश्च विशेषेण पश्यति विपश्यं ज्ञानं, तदस्यास्ति विपश्यी ॥ १ ॥ शिखाऽस्याऽस्ति शिखी ॥ २ ॥ विश्वं भवत्यस्माद् विश्वभूः ॥३॥ क्रमेण कौ च्छन्दोऽस्य क्रकुच्छन्दः, पृषोदरादित्वात् ॥ ४ ॥ काञ्चनवर्णत्वात् काञ्चनः ॥५॥ कश्यपस्याऽपत्यं वृद्ध काश्यपः, विदादित्वादञ् ॥ ६॥ इति षड बुद्धाः ॥