________________
न्यायकोशः। समुदायत्वम्-[क] अनेकपर्याप्तो धर्मः (ग० अवय० ) । यथा
जलादित्रयोदशभेदसमुदायः पृथिव्यां साध्यते इत्यादौ समुदायत्वशब्दार्थः ( त० दी० २ पृ० २३ )। [ख] अपेक्षाबुद्धिविशेषविषयत्वम् । यथा घटपटस्तम्भकुम्भैतत्समुदायत्वम् । त्रित्वादिपर्याप्तसंख्याविशेष इत्येक आहुः । एवम् समूहत्वशब्दोपि व्याख्येयः । अत्र स्मर्यते समुदायः
प्रत्येकानतिरिक्तः इति नैयायिकानां सिद्धान्त इति।। समूहः-१ समूहालम्बनशब्दवदस्यार्थीनुसंधेयः (वै० सा० द०)। . २ समुदाय इति काव्यज्ञा आहुः । समूहालम्बनम्- [क] नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि
ज्ञानम् ( ग० व्यु० १ )। यथा अयं घटः अयं पटः अयं स्तम्भः अयं कुम्भश्च इत्येकं ज्ञानम् । अत्र ज्ञाने विशेषणद्वयदानेन धवखदिरौ द्वौ इति खड्गी चैत्रः कुण्डली इति च वाक्यजन्यबोधयोः समूहालम्बनास्मकत्वं निराकृतम् इति बोध्यम् ( ग० व्यु० १ )। संशये तु नानाप्रकारतानिरूपिताया एकविशेष्यतायाः सत्त्वान्न समूहालम्बनत्वम् । [ख] यत्र विशेष्यताभेदेन प्रकारताभेदः तज्ज्ञानम् । नानाविशेष्यतानिरूपितनानाप्रकारताशालि ज्ञानम् इत्यर्थः ( कृष्णं० )। सम्यक्चारित्र्यम्-संसरणकर्मोच्छित्तावुद्यतस्य श्रद्दधानस्य ज्ञानवतः
पापगमनकारणक्रियानिवृत्तिः ( सर्व० सं० पृ० ६५ आहे. )। सम्यग्ज्ञानम्-[क] यथार्थज्ञानम् । यथा सत्यरजते इदं रजतम् इति
ज्ञानम् । [ख] अविसंवादकं ज्ञानम् । [ग] यतश्चार्थसिद्धिस्तत् इति बौद्धा आहुः (न्या० बि० टी० पृ० ३-६ )। एतन्मते सम्यग्ज्ञानं द्विविधम् प्रत्यक्षम् लैङ्गिकं चेति । [घ] येन स्वभावेन जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः इत्यार्हता आहुः । तन्मते सम्यग्ज्ञानं पञ्चविधम् मतिः श्रुतम् अवधिः मनःपर्यायः
केवलं च ( सर्व० सं० पृ० ६३ आई० )। सम्यग्दर्शनम् येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रति
पादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानम् ( सर्व० . सं०. पृ० ६२ आहे ०.)। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org