________________
९७४
न्यायकोशः। समाह्वयः-प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ( मिताक्षरा
अ०.२।११९)। समितिः-प्राणिपीडापरिहारेण सम्यगयनम् ( सर्व० सं० पृ० ७८-७९
आई० )। समीपत्वम्-संनिकृष्टत्वम् । समुच्चयः-१ [क] विरोधानवगाही कोटिद्वयसामानाधिकरण्यावगाही च
निश्चयः । यथा पर्वतो वह्निमान् वह्नयभाववांश्च इति ज्ञानम् । अव्याप्य- वृत्तित्वज्ञानकाले कोटिद्वयोपस्थितौ सत्यामिदं ज्ञानमुत्पद्यत इति विज्ञेयम्।
गादाधरीयबाधग्रन्थफक्किकाया अयमेवाभिप्रायः इति प्रतिभाति । [ख] धर्मितावच्छेदकसामानाधिकरण्येनोभयकोट्यवगाहिज्ञानम (त० प्र०२)। यथा वृक्षः कपिसंयोगतदभाववान् इति ज्ञानम् । २ निरपेक्षाणामेकत्रान्वयः। स च यत्र असंबद्धे एकैकशः क्रियान्वयः। यथा धवं छिन्धि खदिरं च छिन्धि इति समुच्चये तुल्यवदसंबद्धयोः क्रियान्वयधीः । अत्रायं विशेषः प्राधान्येन यत्र क्रियान्वये तात्पर्यम् स समुच्चय इति (त० प्र० ख० ४ पृ० ५२)। शाब्दिकास्तु यत्र परस्परनिरपेक्षाणामनेकेषामेकस्मिन्क्रियादावन्वयः सः । यथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः परस्परसापेक्षत्वाभावेपि एकस्मिन् गमनेन्वय इति । तद्वाचकश्च प्रायेण चकारः । कचित् तथा इत्यादिशब्दोपि वाचको भवति इत्याहुः । अन्वयश्च विशेष्यतया विशेषणतया वा । तत्राद्यम् चैत्रो गच्छति पचति च इत्यादौ क्रियासमुच्चये । द्वितीयम् ईश्वरं गुरुं च भजस्व इत्यादौ द्रव्यसमुच्चये ( वाच० )। शिष्टं तु चशब्दे द्वन्द्वशब्दे च दृश्यम् । समुत्थानम्-व्रणरोपणम् ( मिताक्षरा अ० २।२२२ )। समुदयः-रागादीनां गणोयं स्यात्समुदेति नृणां हृदि । आत्मात्मीय
स्वभावाख्यः स स्यात्समुदयः पुनः ॥ (सर्व० सं० पृ० ४६ बौ०)। समुदायः-दुःख कारणम् । तद्विविधम् । प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च
( सर्व० सं० पृ० ४० बो०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org