________________
न्यायकोशः ।
समाहारद्वन्द्वः- द्वन्द्वसमासः ) [क] एकवचनान्यसुबाकाङ्क्षाविहीनः समासः । यथा पाणिपादम् हस्त्यश्वम् इति समाहारद्वन्द्वः । अत्र एके प्राच नैयायिकाः आहुः । पाणिपदं पाणिप्रतियोगिकमित्यर्थं पादपदं च पादसमाहारं लक्षयति । न पाणिपादसमाहारे शक्तिः इति । शाब्दिकास्तु समाहारे शक्तिः इत्याहुः । तथा च समाहारे द्वन्द्वे द्वित्वत्रित्वादिनैव समूहस्य बोधात्समूहत्वमेव प्रवृत्तिनिमित्तम् इति विज्ञेयम् । अन्ये प्रा नैयायिकास्तु उत्तरपदे पाणिपादसाहित्ये लक्षणा । पाणि इति पदान्तरं तु तादृशलक्षणाया निरूढत्वसंपादकम् । तथाविधसाहित्यस्य च स्वाश्रयनिष्ठत्वादिसंबन्धेनैव द्वितीयाद्यर्थकर्मत्वादौ साकाङ्क्षत्वात् पाणिपादं वादय इत्यादेर्ना योग्यत्वम् इत्याहुः ( श० प्र० श्लो० ४८ टी० पृ० ६१ ) ( न्या० म० ४ पृ० १३ ) | नव्यास्तु चूडामणिभट्टाचार्यादयः पाणिपादं वादय इत्यत्र पाणिपादमात्रप्रतीते ( समाहाराप्रतीतेः ) न समाहारे लक्षणा न वा शक्तिः । इतरेतरसमाहारसंज्ञा च नदी वृद्धि इत्यादिवत्पारिभाषिकैन । तथा च समाहार एकवद्भावेन न द्विवचनापत्तिः इति प्राहुः ( न्या० म० ४ पृ० १३ ) ( म०प्र० ४ पृ० ४६ ) । पाणिपादम् हस्त्यश्वम् इत्यादितो हि करचरणादीनां बहूनामप्यवगतावेकवचनमेव प्रमाणम् (श० प्र० श्लो० ४९ टी० पृ० ६६ ) । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ( पाणि० २।४।२ ) इति सूत्रं प्रमाणमत्र द्रष्टव्यम् । [ख] समूहार्थको द्वन्द्वसंज्ञकः समासः इति शाब्दिका आहुः । समाहारद्विगु: - ( द्विगुसमासः ) [क] स्त्रोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्यशब्दः स द्विगुः समाहारद्विगुः । यथा पञ्चपूली इत्यादिः । अत्र हि योगलभ्यानां पञ्चाभिन्नपूलानां समाहारः परस्थपूलशब्देन लभ्यते । न तु तत्र द्विगोः शक्तिः । अन्यलभ्ये शक्त्ययोगात् । अत एव न लक्षणापि । शक्यसंबन्धस्यैव लक्षणात्वेन वाक्ये तदसंभवात् ( श० प्र० श्लो० ३८ टी० पृ० ४७ ) इति । [ ख ] तद्धितार्थो - त्तरपदद्विगुभ्यां भिन्नो द्विगुः । यथा पञ्चपूलीं छिनत्ति । पञ्चपाचकी इत्यादिरपि । एवं च द्विगोः कर्मधारयान्तर्गतत्वेपि न क्षतिः इति तु विभावनीयम् ( श० प्र० श्लो० ३८ टी० पृ० ४७ ) ।
1
Jain Education International
For Personal & Private Use Only
९७३
-
www.jainelibrary.org