________________
९७२
न्यायकोशः ।
1
1
इति द्रष्टव्यम् । देवदत्तस्य गुरुकुलम् इत्यादौ देवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयः । संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठयर्थः । अथ वा संबन्धिशब्दार्थस्य पदार्थैकदेशत्वेपि भवत्येव तत्र संबन्धप्रतियोगिनोन्वयः । तदुक्तं भर्तृहरिणा संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षापि वृत्तावपि न हीयते ॥ ( वाक्यप ० ) इति । वार्तिककारमतमपि भर्तृहरिमततुल्यमेव । प्राचीनानां तु विरुद्धा गाथा सापेक्षे प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्तविशेषणम् ॥ इति । स च समासः षड्विधः सुपां सुपा तिङा नाम्ना धातुनाथ तिङां तिङा । सुबन्तेनेति च ज्ञेयः समासः षाधो बुधैः ॥ (वै० सा० समा० कारि० २८ ) इति । तत्र सुपां सुपा समासो यथा राजपुरुषः इत्यादिः । सुपां तिङा यथा पर्यभूषत् इत्यादिः । अयं समासः सह सुपा ( पाणि० २।१।४ ) इत्यत्र योगविभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ । सुपां नाम्ना यथा कुम्भकारः इत्यादिः । सुपां धातुना यथा कटप्रूः आयतस्तूः इत्यादिः । तिङां तिङा यथा पिबतखादता पचतभृज्जता इत्यादिः । तिङां सुबन्तेन यथा जहिस्तम्बः इत्यादिः इत्याहुः । समाहारः – १ साहित्यम् । तच्च [क] तुल्यवदेकक्रियान्वयित्वरूपम् (न्या० म० ) । यथा मार्दङ्गिकवैणविकं वादय इत्यादौ समाहारः । तुल्यवत् समभावेनेत्यर्थः । इदं च पत्नीयजमानयोरेकयागान्वयिनोरतिव्याप्तिवारणाय ! तथा च पत्न्या अनुमतिद्वारा यजमानस्य च साक्षादेव यागान्वयत्वम् न तुल्यवत् इति नातिव्याप्तिः ( म०प्र० ४ पृ० ४६ ) । तथा च क्रियायाः विधेयभूतायाः एकरूपस्तुल्यः संबन्धः समाहारः इति समुदितार्थः । यथा केषांचिन्मते पाणिपादं वादय इत्यत्र वादनक्रियायां तुल्यवदेव पाणिपादयोरन्वयः ( त० प्र० ख० ४ पृ० ५० ) । [ख] अपेक्षाबुद्धिविशेषविषयत्वम् ( न्या० म० ४ पृ० १३ ) । [ग] बुद्धिविशेषविशेष्यत्वम् । यथा पाणिपादम् इत्यादौ समाहारद्वन्द्वे समाहारः ( श० प्र० श्लो० ४८ टी० पृ० ६१ ) । २ समुच्चयः । अनुद्भूतावयवविशेषः समूहः इति वैयाकरणा आहुः ( वाच० ) I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org