________________
न्यायकोशः। समानानां पञ्चविधत्वं वदन्ति ते च समासा अपि पूर्वोक्तसप्तविधान्तर्गता एव भवन्ति । तथा हि । (१) कश्चित्समासः पूर्वपदार्थधर्मिकान्वयबोधजनकतया पूर्वपदप्रधान उच्यते । यथा प्राप्तजाया अर्धपिप्पली पूर्वकायः इत्यादिकस्तत्पुरुषः । यथा वा उदकुम्भाद्यव्ययीभावः पुरुषसिंहादिकर्मधारयश्च । (२) कश्चिन्मध्यमपदार्थधर्मिकधीजनकतयैव मध्यमपदप्रधानः । यथा पटानधिकरण-प्रतियोगितानवच्छेदक-इत्यादिकस्तत्पुरुषः । पटस्य नाधिकरणम् इत्यादिविग्रहे मध्यमपदार्थस्यैव विशेष्यत्वात् । (३) कश्चिदन्त्यपदार्थधर्मिकधीहेतुत्वादन्त्यपदप्रधानः । यथा राजपुरुषादिकस्तत्पुरुषः । नीलोत्पलादिकः कर्मधारयः द्विगााद्यव्ययीभावश्च । (४) कश्चित्सर्वपदार्थधर्मिकबुद्धिहेतुत्वात् सर्वपदप्रधानः । यथा इतरेतरद्वन्द्वः द्वन्द्वमानं वा। (५) कश्चित्स्वाघटकान्यपदार्थधर्मिकज्ञानजनकत्वादन्यपदार्थप्रधानः । यथा बहुव्रीहिः खलेयवाद्यव्ययीभावश्च इति । नित्यानित्यभेदेनापि समासस्य द्वैविध्यं जयादित्यादिभिरुक्तम् (श० प्र० श्लो० ३३ टी० पृ० ३९-४०)। तत्राविग्रहः अस्वपदविग्रहो वा नित्यसमासः (त० प्र० ख० ४ पृ० ४२ )। [ग] वैयाकरणास्तु व्यादिपदानामेकपदतासंपादकः पदसाधुतार्थकः संस्कारविशेषः । यथा राजपुरुष इत्यादौ । अत्र सूत्रम् समर्थः पदविधिः (पाणि० २।१।१ ) इति । अत्र सामर्थ्यं द्विविधम् व्यपेक्षावत्त्वम् एकार्थीभावश्च। तत्र (१) स्वार्थपर्यवसायिपदानामाकाक्षादिवशाद्यः परस्परं संबन्धः सा व्यपेक्षा। परस्परनिरूप्यनिरूपकभावापन्नविषयताप्रयोजकत्वे सति एकार्थोपस्थित्यजनकत्वम् । राज्ञः पुरुषः इत्यादी वाक्ये सत्यामाकाकायाम् यो यो यस्मिन् संनिहितो योग्यश्च स तेन तेन संबध्यते । यथा राज्ञः पुरुषोश्वश्च राज्ञो देवदत्तस्य च पुरुषः ऋद्धस्य राज्ञोश्वो धनं च इत्यादि । वृत्तौ तु नैवम् । वृत्तीनामेकार्थीभावात् । ( २ ) एकार्थीभावस्तु विशेष्यविशेषणभावावगा कोपस्थितिजनकत्वम् । तथा च राजादिशब्देन विशिष्टैकार्थबोधकतया न तदेकदेशे ऋद्धादेरन्वयः । पुरुषांशे विशेषणतयोपस्थितस्य नाश्वादिसंबन्धिता राजादीनाम् । जनितान्वयाञ्च निराकाङ्कतया न देवदत्तादेः स्वामितया पुरुषादावन्वयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org