________________
न्यायकोशः। समासः-१ संक्षेपः । यथा विष्णुनास्य समस्तस्य समासव्यासयोगतः ( तत्त्वसं० ८।५) इत्यादौ समासशब्दस्यार्थः संक्षेपः (प्र० च० पृ० ५४ )। २ समर्थनम् ( मेदि०)। ३ समाहारः। ४ समासो नाम धर्मिमात्राभिधानम् ( सर्व० सं० पृ० १७१ नकु०)। ५ [क] अनेकेषां पदानामेकपदीभवनम् । समासपदं द्विविधम् योगरूढम् यौगिकं चेति । तत्राद्यम् पङ्कजकृष्णसाधर्मादिपदम् । द्वितीयं तु कर्मधारयादिः सप्तविधः समासः । अत्र समासत्वं चाखण्डोपाधिः संकेतविशेषेण समासपदवत्त्वं वा (म० प्र० ४ पृ० ४३)। [ख] यादृशमहावाक्योत्तरः त्वतलादिः स्वार्थस्य याशार्थावच्छिन्नविषयताशालिबोधे हेतुः तादृशं तद्वाक्यं तथाविधार्थे समासः । इदं च यौगिकसमासस्य लक्षणम् न तु योगरूढसमासस्य इति विज्ञेयम् । अत्र वाक्यस्य महत्त्वं च प्रकृत्यर्थमात्रावच्छिन्नप्रत्ययार्थस्यान्वयबोधं प्रत्ययोग्यत्वं वाच्यम् । तेन उपकुम्भादौ नाव्याप्तिः । न वा नीलघटत्वत्वम् इत्यादौ नीलघटत्वादिभागेतिप्रसङ्गः (श० प्र० श्लो० ३१ टी० पृ० ३८) । स चायं समासः सप्तविधः कर्मधारयः द्विगुः तत्पुरुषः अव्ययीभावः बहुव्रीहिः द्वन्द्वः उपपदसंज्ञकश्चेति ( श० प्र० श्लो० ३२ टी० पृ० ३९ )। केवलसमासः इत्यपि केचिदाहुः। समासश्चतुर्विधः अव्ययीभावः तत्पुरुषः द्वन्द्वः बहुव्रीहिश्च इति केचिच्छाब्दिका आहुः । तत्र पूर्वपदार्थप्रधानोव्ययीभावः उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानो द्वन्द्वः अन्यपदार्थप्रधानो बहुव्रीहिः इत्यादिलक्षणमपि प्रायिकम् । उन्मत्तगङ्गम् सूपप्रति इत्याद्यव्ययीभावे अर्धपिप्पली पूर्वकायः इत्यादितत्पुरुषे द्वित्राः इत्यादिबहुव्रीहौ कुशपलाशम् इत्यादिद्वन्द्वे च परस्परव्यभिचारात् परस्परमव्याप्त्यतिव्याप्त्योः सत्त्वात् इत्यलम् । प्राचीनवैयाकरणोक्तविभागस्य प्रायिकत्वमाह। समासस्तु चतुर्धति प्रायोवादस्तथापरः। योयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ भौतपूात् सोपि रेखागवयादिवदास्थितः इति । अत्रोच्यते कविना सोपहासम् द्वन्द्वो द्विगुरपि चाहं मद्हे सततमव्ययीभावः । तत्पुरुष कर्म धारय येन सदा स्यां बहुव्रीहिः ॥ (उद्भटः) इति । अत्र प्राचीना वाग्भटादयः पञ्चविधान् भेदानादाय येषां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org