________________
न्यायकोशः। तत्रावयवविपर्यासेन वचनमप्राप्तकालमसंबद्धार्थकालं निग्रहस्थानमिति ( वात्स्या० ५।२।११) । [ख] समयबन्धविषयीभूतकथाक्रमविपरीतक्रमेणाभिधानम् ( गौ० वृ० ५।२।११ ) ( दि० १।२२ )। तत्रायं क्रमः-वादिना साधनमुक्त्वा सामान्यतो हेत्वाभासा उद्धरणीया इत्येकः पादः । प्रतिवादिनश्च तत्रोपालम्भो द्वितीयः पादः । प्रतिवादिनः स्वपक्षसाधनम् तत्र हेत्वाभासोद्धरणं चेति तृतीयः पादः । जयपराजयव्यवस्था चतुर्थः पादः । एवं प्रतिज्ञाहेत्वादीनां क्रमः । तत्र सभाक्षोभव्यामोहादिना व्यत्यस्ताभिधानमप्राप्तकालमिति (गौ० वृ० ५।२।११)। [ग] अवयवानां व्युत्क्रमेण कथनम् । यथा शब्दत्वाच्छब्दः अनित्य
इत्यादि (नील० ४५)। अप्राप्तिसमः—(जातिः) [क] प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अवि
शिष्टत्वादप्राप्त्या असाधकत्वाञ्च प्राप्त्यप्राप्तिसमौ (गौ० ५।१७)। हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ! अप्राप्य साधकं न भवति । नाप्राप्तः प्रदीपः प्रकाशयतीति । अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः ( वात्स्या० ५।११७ ) ( नील० ४४ )। [ख] अप्राप्या असाधकत्वादनिष्टापादनम् । यदि चाप्राप्तं लिङ्गं साध्यबुद्धिं जनयति साध्याभावबुद्धिमेव किं तन्न जनयेत् । अप्राप्तत्वाविशेषात् इति । अयं चाप्राप्तिसमः प्रतिकूलतर्कदेशनाभास इति बोध्यम् (गौ० वृ० ५।१।७)। यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वादित्यादी क्रियाहेतुगुणवत्त्वेनैव किमिति क्रियावत्त्वं साध्यते किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न साध्यते। उभयोरविशेषात् । इति दोषादप्राप्तस्य हेतोः साध्यसाधकत्वं वाच्यम् । तथा चाप्राप्तत्वाविशेषात्सर्वः सर्व साधयेदिति । अयमेव हेतुः साध्याभावं किमिति न साधयेत् इत्यत्र विनिगमकाभावादिति ( नील० ४४ )। [ग] अप्राप्य साधयेत्साध्यं हेतुः सर्वत्र साधयेत् । अप्राप्तेरविशिष्टत्वा दित्यप्राप्तिसमे स्थितिः ( ता० र० परि० २ श्लो० ११२ )। अफलत्वम्-मुख्यफलाजनकत्वम् ( मू० म० १ )। यथा स्वर्णोद्देशेन
कृतस्य चैत्यवन्दनादेरफलत्वम् ।। न्या० को. ९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org