________________
६६
न्यायकोशः ।
|
T
अभावः – १ (पदार्थः) [क] असमवायत्वे सत्यसमवाय: ( सर्व० पृ० २३२ औलु० ) समवायभिन्नत्वे सति समवायशून्य इत्यर्थः । [ख] भावभिन्नः प्रतियोगिज्ञानाधीनज्ञानविषयः । [ग] माध्यास्तु प्रथमप्रतीतौ यः नास्ति इति प्रमाविषयः सः अभावः इत्याहुः (प्र०च० ' ० परि० पृ०४९) । अभावश्चतुर्विधः । प्रागभावः प्रध्वंसः अत्यन्ताभावः अन्योन्याभावश्चेति (त० सं० ) । अभावपदार्थस्योपयोगमाह न्यायलीलावतीकारः - अभावो वक्तव्यो निःश्रेयसोपयोगित्वाद्भाव प्रपञ्चवत् इति । कारणाभावे कार्याभावस्य सर्वमतसिद्धत्वादुपयोगित्वसिद्धिः (न्या०ली० पृ० १-२ ) । अन्ये तु अभावो द्विधा-संसर्गाभावः अन्योन्याभावः । आद्यस्त्रिविधः प्रागभावः प्रध्वंसः अत्यन्ताभावः इति ( भा० प० श्लो० १२ ) ( त० कौ० २१ ) । द्वितीयस्त्वेकविध एवेति ( मु० १।४१ ) । अत्र संसर्गाभावत्वं च तादात्म्येतर संसर्गाविच्छिन्न प्रतियोगिताकाभावत्वमिति संप्रदायः । भेदेतराभावत्वमिति नव्याः ( प० मा० ) । अत्रेदं बोध्यम् - अभावञ्च भावभिन्नः पदार्थः । तत्र भावत्वं च द्रव्यादिषट्कान्यतमत्वम् । अथ वा समवाय एकार्थसमवाय एतदन्यतरसंबन्धेन सत्तावत्त्वम् ( ल० व० २ - ३ ) । अभावलक्षणं चाभावत्वमेवेति बोध्यम् । अभावविषये केचन नियमाः संभवन्ति । तत्र प्रथमः- अवच्छेदकभेदः अभावभेदनियामक इति । द्वितीयः - विशेषाभावकूटानां सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वं स्वीक्रियत इति ( दीधि० २ ) । तृतीयः- अभावप्रत्यक्षं प्रति योग्यानुपलब्धिः कारणम् । तथा हि यद्यत्र घटः स्यात्तर्बुपलभ्येत इति तर्कितया घटसत्त्वस्य प्रसक्त्या आपादिताया घटविषयकोपलब्धेरभावो घटाभावप्रत्यक्ष इन्द्रियस्य सहकारीति । भट्टास्तु अभावो नेन्द्रियग्राह्यः क्लृप्तसंनिकर्षाणामभावात् । किंतु अनुपलब्धिरूपप्रमाणगम्य इत्याहु: । चतुर्थः — एक प्रतियोगिकयोरप्यत्यन्ताभावान्योन्याभावयोः प्रतियोगितावच्छेदकधर्मप्रतियोगितावच्छेदकसंसर्गभेदाद्बहुत्वम् । तत्र प्रतियोगितावच्छेदकधर्मसंसर्गभेदादत्यन्ताभावबहुत्वम् प्रतियोगितावच्छेदकधर्मभेदादन्योन्याभावबहुत्वम् इति
Jain Education International
•
For Personal & Private Use Only
www.jainelibrary.org