________________
न्यायकोशः।
तादृशक्षरणांशे विशेषणीभूतस्य ( परंपरया धात्वर्थतावच्छेदकस्य ) विभागस्याश्रय इति गोरप्रधानकर्मत्वं बोध्यम् (ग० व्यु० २)। शब्दशक्तिप्रकाशकारास्तु मोचनानुकूलव्यापारो दुहेरर्थः । मोचनं च बहिःक्षरणानुकूला क्रिया। तादृशक्रियायाः साक्षाद्धात्वर्थतावच्छेदकीभूताया आश्रयो गौरिति गोः प्रधानकर्मत्वम् । पयसस्तु परंपरया धात्वर्थतावच्छेदकीभूतबहिःक्षरणात्मकफलाश्रयत्वेन गौणकर्मत्वमित्यङ्गीचक्रुः ( श० प्र० ९८) । अत एव पयःप्रभृतेर्गौणकर्मत्वसंपत्तये अकथितं
च (पा० १।४।५१ ) इति सूत्रान्तरम् (श० प्र० ९६ )। अप्रधानत्वम्-१ गौणत्ववदस्यार्थीनुसंधेयः। २ कर्मणः अप्रधानत्वं च
अप्रधानक्रियाफलाश्रयत्वम् । ३ प्राधान्यं हि विधेर्यत्र प्रतिषेधेप्रधानतेति
भाट्टाः ( वाच०)। अप्रमा—(बुद्धिः) [क] तच्छ्न्ये तन्मतिः (भा० प० गु० श्लो० १२८)।
इयं च दोषाजन्यते । दोषास्तु पित्तमण्डूकवसाञ्जनादयो नानाविधाः । तथा हि कचित्पित्तभ्रमे पित्तं दोषः । कचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोषः। कचिच्च वंशोरगभ्रमे मण्डूकवसाञ्जनम् । एवंरूपा दोषा अननुगता एव भ्रान्तिजनका इति (भा० ५० श्लो० १३२ ) (मु०गु० २११ ) । अधिकं तु भ्रमशब्दव्याख्यानावसरे संपादयिष्यते । [ख] प्रमाणाभासजन्यः अयथार्थानुभवः ( त० कौ० ६)। [ग] यत्र यन्नास्ति तत्र तस्य ज्ञानम् । [ घ] तदभाववति तत्प्रकारकानुभवः (चि० १११० ) । यथा पुरोवर्तिन्येवारजते शुक्त्यादौ इदं रजतम् इति रजतारोपः ( त० भा० ४० )। अप्रमा त्रिविधा । संशयः विपर्ययः तर्कश्चेति ( त० सं० ) ( त० भा० ४०)। प्रकारान्तरेणाप्रमा द्वेधा भ्रमः संशयश्च । तत्र भ्रमो विपर्ययतर्कावित्युच्यते ( त० कौ० ६)। ( भा० प० श्लो० १२८-१२९) (मु० गु० २०९)। अप्राप्तकालम् (निग्रहस्थानम् ) [क] अवयवविपर्यासवचनमप्राप्तकालम् ( गौ० ५।२।११) । प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात्क्रमः। १ अप्रधानतेति पदच्छेदः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org