________________
९६७
-
न्यायकोशः । समानवित्तिवेद्यत्वम्-तुल्यवित्तिवेद्यत्वम् (त० प्र० ख० ४ पृ० २१ ) । समानविभक्तिकत्वम् — [क] स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । यथा नीलो घटः इत्यादौ नीलपदघटपदयोः समानविभक्तिकत्वम् । इदं च अभेदान्वयविषयकशाब्दबोधे प्रयोजकं भवति । अत्रेदमधिकं बोध्यम् । समानविभक्तिकत्ववत् समानवचनकत्वमप्यभेदान्वयबोधे तन्त्रम् इति नियमः । तत्र व्यवस्था । यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वम् तत्र विशेष्यविशेषणपदयोः समानलिङ्गवचनकत्वनियमः इति । तेन पुरूरवोमार्द्रवसौ विश्वेदेवाः त्रयः समुदिता हेतुः पितरो देवताः जात्याकृतिव्यक्तयः पदार्थाः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इत्यादिषु विभिन्नलिङ्गवचनकस्थलेष्वभेदान्वयबोध उपपद्यते ( व्यु० का० १ पृ० १ - ३ ) इति । अत्र विभक्तौ तादृशविभक्तिसाजात्यं च विभक्तिविभाजकप्रथमात्वादिनावगन्तव्यम् । तेन वेदाः प्रमाणम् शतं ब्राह्मणाः इत्यादौ समानविभक्तिकत्वं संपद्यते ( ग० व्यु० का ० १ पृ० १ ) । [ख] केचित्तु विरुद्धविभक्त्यनवरुद्धत्वम् । यथा नीलमुत्पलम् नीलोत्पलम् इत्यादौ समानविभक्तिकत्वम् ( म०प्र० ४ पृ० ४८ ) 1[ग] विरुद्धविभक्तिराहित्यम् । तच्च स्तोकं पचति इत्यादौ विभक्तिशून्यभागेप्यस्ति इति ज्ञेयम् ( त० प्र० ४ पृ० ४६-४७) । [घ] विशेषणपदस्य विशेष्यपदाप्रकृतिकविभक्त्यप्रकृतित्वम् । यथा नीलघटमानय नीलं घटमानय इत्यादौ समानविभक्तिकत्वम् इत्याहु: ( ग० व्यु० १ पृ० ३ ) । इदं च विरुद्धविभक्तिराहित्यरूपा समासव्याससाधारणाकाङ्क्षा इत्युच्यते । तत्तु वैयाकरणख सूचिमानय इत्यादौ न प्राप्नोति इति चिन्त्यम् । समानविषयकत्वम् — तुल्यरूपविशेष्याविशेषणताशालित्वम् तद्विषयविषयकत्वं वा । यथा पर्वतो वह्निमान् पर्वतो महानसीयवह्निमांश्व इति निश्चययोः समानविषयकत्वम् । क्वचित् अभावप्रतियोगितावच्छेदकतया प्राह्मवृत्तिधर्मावगाहित्वम् (ग० बाध० ) । यथा पर्वतो महानसीयवहथ। भाववान् इति निश्चयस्यापिपर्वतो वह्निमान् इति बुद्धिसमानविषयकत्वम् ।
Jain Education International
For Personal & Private Use Only
-
"
www.jainelibrary.org