________________
न्यायकोशः। समानः-१ (वायुः ) [क] आहारेषु पाकाथं वह्नः समानयनात्समानः
(दि० १२२)। [ख] मुक्तपरिणामाय जठरानलस्य समुन्नयनात्समानः । - स च प्राणान्तर्गतो वायुः ( सि० च०)। २ एकः । यथा समानतत्र
सिद्धः परतत्रासिद्धः प्रतितन्त्रसिद्धान्तः (गौ० १११।२९) इत्यादौ । यथा वा यत्समानाधिकरण (चि० २ व्याप्ति० ) इत्यादौ समानशब्दस्यार्थः । ३ तुल्यः । यथा सिंहसमानगुणयोगान्माणवकः सिंहः इत्यादी
समानशब्दस्तुल्यार्थकः । ४ साधुः इत्यन्ये वदन्ति । समानधर्मः-[क] विरुद्धकोटिद्वयसाधारणधर्मः (गौ० वृ० १।१२३)।
यथा स्थाणुपुरुषयोः समानो धर्म आरोहपरिणाहौ (वात्स्या० १।१।२३)। तादृशधर्मज्ञानं च स्थाणुर्वा पुरुषो वा इत्याकारकसंशये प्रयोजकम् इति विज्ञेयम् । [ख] कोटिद्वयसहचरितधर्मः ( दि० गु० )। यथा रङ्गं रजतं न वा इति संशये हेतुभूतः रङ्गरजतयोः सामान्यधर्मश्वाकचिक्य.
शुभ्रत्वादिः । [ग] साधर्म्यम् (मु० १ )। समानपदत्वम्-एकपदत्वम्। समानप्रकारकत्वम्-१ स्वस्मिन् ( यत्किचिज्ज्ञानादौ ) यद्धर्मावच्छिन्न
विशेष्यतानिरूपितयद्धर्मावच्छिन्नप्रकारताकत्वम् ततोन्यत्र ( ज्ञानादौ ) तादृशविशेष्यतानिरूपिततादृशंप्रकारताकत्वम् । यथा संशयनिश्चययोः । २ प्रतिबध्यप्रतिबन्धकभावस्थले प्रतिबध्यज्ञाने यद्धर्मावच्छिन्नविशेष्यतानिरूपितयद्धर्मावच्छिन्नप्रकारताकत्वम् प्रतिबन्धकज्ञाने च तद्धर्मावच्छिन्नविशेष्यतानिरूपिततद्धर्मातिरिक्तधर्मानवच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपकत्वम् । यथा नव्यमते पर्वतो वह्नयभाववान् इति निश्चयस्यापि पर्वतो महानसीयवह्निमान् इति बुद्धिसमानप्रकारकत्वम् । अत्रेदमवधेयम् । तदभाववत्तानिश्चयनिष्ठायां तद्वत्ताबुद्धिप्रतिबन्धकतायां समानप्रकारकत्वं तत्रम् इति नव्यानां सिद्धान्तः । प्राचां सिद्धान्तस्तु तत्र समानविषयकत्वमेव तन्त्रम् इति । अत्रेदं तत्त्वम् । विशेषतद्वत्ताबुद्धिं प्रति सामान्यतदभाववत्तानिश्चयस्यापि प्रतिबन्धकत्वम् इति सर्वानुभव- . मनुरुध्येदमुक्तम् इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org