________________
न्यायकोशः ।
-
1
संयोगाद्यव्याप्त्यतिव्याप्त्युद्भावनेन परेण दूषिते त्वगग्राह्यचक्षुर्ब्राह्मगुणविभाजकधर्मवत्त्वम् इति नीलकण्ठ्यां समाधानम् । [ ख ] केचित्तु विवादभञ्जनम् । पूर्वपक्षस्य सम्यगुत्तरानुगुणसिद्धान्तानुकूलतर्कादिना सम्यगर्थावधारणम् इत्याहुः । २ ध्येयवस्तुनि चित्तस्य निरन्तरस्थापनम् इति योगशास्त्रज्ञा आहुः । समाधिः – १ समाधानम् । २ योगशास्त्रज्ञास्तु चित्तस्याभिमतविषयनिष्ठत्त्रम् ( गौ० वृ० ४।२ ३६ ) । एकाग्रतया मनसः स्थापनरूपो ध्येयमात्रस्फुरणरूपः ध्यानविज्ञेष: इत्याहुः । अत्र सूत्रम् तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ( पात० पा० ३ सू० ३ ) इति । तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः सोभिधीयते । (वाच० ) इति पुराणमपि । समाधिर्नाम भावना | सा च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् ( सर्व० सं० पृ० ३५६ पात० ) । समाधिः समतावस्था जीवात्मपरमात्मनोः । ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः ॥ ( सर्व० सं० पृ० ३४७ पात० ) । आलंकारिकास्तु ३ अर्थालंकारविशेषः । तत्रोक्तम् समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ( सा० द० परि० १० श्लो० ० ८६ ) इति । ४ काव्यगुणविशेषः समाधिः । तत्रोक्तम् श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः ।। इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ( काव्याद० ) इति । तस्यौजस्यन्तर्भावो यथा श्लेषः समाधिरौदार्यं प्रसाद इति वै पुनः । गुणाश्चिरंतनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥ ( सा० द० परि०८ श्लो० ९ ) इति । अत्रेदं ज्ञेयम् । समाधिरारोहावरोह क्रमरूपः । आरोह I उत्कर्षः । अवरोहोपकर्षः । तयोः क्रमो वैरस्यानावहो विन्यासः । यथा चद्भुजः ( वेणीसं० ) इत्यादि । अत्र पादत्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च तीव्रप्रयत्नोच्चार्य तयौजस्विता (सा० द० परि० ८ श्लो० ९ - १० टी० ) इति । ५ समाधिः मानसी व्यथा इति काव्यज्ञा आहुः ।
1
1
1
Jain Education International
For Personal & Private Use Only
९६५
www.jainelibrary.org