________________
९६४
न्यायकोशः। भवति । २ मिलितम् । ३ समूहान्वितं संगतं च । यथा सेनाया
समवेताः सैनिकाः (अमरः २।८।६१) इत्यादौ इति काव्यज्ञा आहुः । समव्याप्तत्वम्-समनियतत्वम्। समष्टिः-१ सम्यग्व्याप्तिः । २ वेदान्तिनस्तु संघीभूतः समस्तः पदार्थः ।
यथा मायावादिमते हिरण्यगर्भः (वेदान्तसा० )। अत्रोदाह्रियते समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया ॥ ( पश्चद० ११२५ )। यथा वा अन्येषां वेदान्तिनां मते गरुडानन्तविष्वक्सेनादयः समष्टिजीवाः इत्याहुः ( तत्त्वसंख्या० )।
३ समस्तत्वम् इति काव्यज्ञा आहुः । समाख्या-१ अन्वर्था संज्ञा । यथा अयोनिजेषु शरीरेषु मनुमरीचिदुर्वासः
संज्ञा (वै० उ० ४।२।८ ) (वै० वि० ४।२।८ )। २ मीमांसकास्तु यौगिकः शब्दः । अत्रोक्तम् स्थानं क्रमो योगबलं समाख्या (शास्त्रदीपिका ) इति । सा च समाख्या द्विविधा वैदिकी लौकिकी चेति । तत्राद्या यथा होतृचमसः हारियोजनः इत्यादिः । अत्र होतृचमस इत्यनया वैदिकसमाख्यया होतुश्चमसभक्षणाङ्गत्वं बोध्यते ( लौ० भा० विधिनि० पृ० २८ )। अत्र चमसस्थसोमभक्षणे श्रुतिः हविर्धाने चर्मन्नधि प्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति (तैत्तिरीयसंहिता ६।२।११) इति । हारियोजनशब्दार्थस्तु हरिरसि हारियोजनः इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः ( लौ० भा० विधिनि० टी० पृ० २८)। लौकिकी समाख्या तु याज्ञिकैः परिकल्पिता ( लौ० भा० टी० पृ० २८ )। सा यथा आध्वर्यवम् इत्यादिः। आध्वर्यवं काण्डम् इत्यर्थः । अनया लौकिकसमाख्यया पुरोध्वर्युर्विराजति इत्यादिना यजुर्वेदेन विहितानां पदार्थानामङ्गत्वमध्वयोर्बोध्यते ( लौ०
भा० टी० पृ० २८ ) इत्याहुः । ३ कीर्तिः इति काव्यज्ञा आहुः । समाधानम्-१ [क] उद्भावितदूषणनिवर्तकवाक्यप्रयोगः । यथा
चक्षुर्मात्रग्राह्यत्वविशिष्टगुणत्वात्मके रूपलक्षणे परमाणुरूपप्रभाभित्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org