________________
न्यायकोशः ।
९६३.
समवायिकारणम् – ( कारणम् ) [क] यत्समवेतं कार्यमुत्पद्यते तत् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः समवायिकारणम् (त० सं० ) । यत्समवेतमित्यस्यार्थश्च यस्मिन्समवायेन संबद्धं सत् कार्यमुत्पद्यते तत् ( न्या० बो० ) । यद्वा यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने समवायेनोत्पद्यते तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणम् ( नील० १ पृ० १७) इति । तथा हि तन्तुषु समवायेन संबद्धं सत् पटात्मकं कार्यमुत्पद्यते । अतः तन्तुः पटस्य समवायिकारणं भवति ( न्या० बो० १ पृ० ९ ) इति । समवायिकारणत्वं च समवायसंबन्धेन कार्याधिकरणत्वम् ( ल०व० ) ( वाक्य ० १ पृ० १० ) । अथ वा समवायसंबन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्न कारणत्वम् । तथा हि । समवायसंबन्धेन घटाधिकरणे कपालादौ कपालादेस्तादात्म्य संबन्धेनैव सत्त्वात् समवायेन घटं प्रति तादात्म्येन कपालं कारणम् इति कार्यकारणभावः इति । समवायसंबन्धावच्छिन्नघटत्वावच्छिन्न कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नकारणताया: कपालादौ सत्त्वाल्लक्षणसमन्वयः ( न्या० बो० १ पृ० ९ ) । अत्र नियमः समवायिकारणत्वं द्रव्यमात्रवृत्ति इति ( भा० प० श्लो० २३ ) (वै० १०।२1१ ) । अत्राहुरपरे द्रव्यस्य समवायिकारणत्वेपि निमित्तकारणत्वमप्यस्ति । तथा हि पटं प्रति तन्तूनां समवायिकारणत्वेपि तुरीतन्तुसंयोगद्वारा निमित्तकारणत्वमपि तेषां विद्यते तुरीवत् ( त० वं० २।३३ ) (वै० उ० १०/२२ ) इति । [ ] स्वसमवेत कार्योत्पादकम् । तच्च द्रव्यमेव भवति । [ग] उपादानकारणम् इति सांख्यमायावादिवेदान्तिप्रभृतय आहुः । अस्मिन्मते उपादानत्वं च परिणामित्वम् इति ज्ञेयम् । उपादानं निमित्तं च इति द्विविधमेव कारणम् इति च ज्ञेयम् ( प्र० च० पृ० १३ ) । समवायित्वम् – १ समवायानुयोगित्वम् । यथा कपाले
I
1
-
घटसमवायित्वम् • गुणक्रिययोश्च समवायित्वं द्रव्ये । २ विद्यमानत्वम् इति काव्यज्ञा वदन्ति । समवेतम् – १ कस्मिंश्चित् द्रव्यगुणकर्मात्मके वस्तुनि समवायसंबन्धेन विद्यमानम् । यथा मृदा समवायेनोत्पाद्यं घटात्मकं कार्यं कपाले समवेतं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org