________________
९६२
न्यायकोशः। योग्यप्रतियोगिकत्वे सति विशेषणतया योग्यवृत्तित्वात् भूतलादिवृत्तिघटात्यन्ताभावादिवत् इत्यादि (वै० वि० ७।२।२८)। एतन्मते च समवायप्रत्यक्षं प्रति इन्द्रियसंबद्धविशेषणतासंनिकों हेतुः इति कार्यकारणभावो ज्ञेयः (मु० ) (वै० वि० ७।२।२८)। इह कपाले घटसमवायः इति प्रत्यक्षं विशेषणतासंनिकर्षेणैव भवति (प्र० प्र०) (त० कौ० ) इति । समवायोतीन्द्रियः अनुमेय एव इति वैशेषिका आहुः । वैशेषिकमते समवायस्यातीन्द्रियत्वे प्रमाणमनुमानम् । तच्च समवायोतीन्द्रियः । चेतनान्यत्वे सति असमवेतभावत्वान्मनोवत् आकाशादिवद्वा (वै० वि० ७।२।२८ ) (वै० उ० ७।२।२८ ) इति । समवायो न प्रत्यक्षः। संबन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् । कथमन्यथा घटाकाशसंयोगो न प्रत्यक्षः । न च समवायस्य सर्वे आश्रयाः प्रत्यक्षाः । परमाण्वादेरयोग्यत्वात् (न्या० म० १ पृ० ७) इति । अनुमानं तु गुणक्रियादिविशिष्टबुद्धिर्विशेष्यविशेषणसंबन्धविषया . विशिष्टबुद्धित्वात् दण्डी पुरुषः इति विशिष्टबुद्धिवत् (मु० १ पृ० ३९)
इति । इदमनुमानं समवायसद्भावे प्रमाणं भवति (वै० वि० ७२।२६)
(मु० १ पृ० ३९)। सर्वत्र स्वरूपस्यैव संबन्धत्वोपपत्तौ समवायो न - पदार्थान्तरम् इति भट्टा वेदान्तिनः सांख्याश्च मन्यन्ते (ता. २०
श्लो० ५४ ) (वै० उ० ७।२।२८ ) ( वै० वि० ४।२।११) (दि. १) (सि० च०) ( राम० १ पृ० १२२ )। तत्र माध्वानामयमाशयः । गुणादीनां गुण्यादिभिः द्रव्यादिभिः अभेदेन समवायाभावात् । आत्मनस्तद्धर्माणां च साक्षिविषयत्वेन मनोविषयत्वाभावात् । वर्णात्मकशब्दस्याद्रव्यत्वेनाकाशविशेषगुणत्वाभावात् (प्र०प० पृ०११) इति । गुणकर्मसामान्यादिभिर्द्रव्यस्य भेदाभेदौ । तत्र यावद्रव्यभाविना गुणकर्मसामान्यादिना द्रव्यस्यात्यन्ताभेद एव। अयावद्रव्यभाविना तु भेदः (प्र० च० परि० २ पृ० ५२ ) इति । २ समवायो नाम समूहः । ३ मेलनं च । यथा सेनायां समवेताः ( अमरः २।८।६१) इत्यादौ इति काव्यज्ञा आहुः।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org