________________
न्यायकोशः ।
सिद्धिः । अन्यथा स्वाश्रयवृत्तित्वसंबन्धेन हेतुत्वे नीलकपालसंयुक्तशुक्लकपालादावपि नीलोत्पत्त्यापत्तेः ( म०प्र० १ पृ० १२ ) । अत्र समवायसंबन्धेन पटत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन तन्तुत्वेन हेतुत्वात्कार्यतावच्छेदकसंबन्धविधया समवायसिद्धि: ( दि० १ पृ० ३९ ) । युतसिद्धयोः संयोग इवायुतसिद्धयोः समवाय आवश्यकः इत्यपि बोध्यम् ( त० कौ० ) । समवायत्वं च नित्यसंबन्धत्वम् ( त० सं०) ( मु० ) । अत्र संयोगादिवारणाय नित्यत्वम् । गगनादिवारणाय संबन्धः इति संबन्धत्वं चात्र स्वरूपत्वानवच्छिन्न सांसर्गिकविषयताश्रयत्वम् । तेन गगनादीनां स्वरूपत्वेन संबन्धत्वेपि न क्षतिः । संयोगसमवायान्यतरत्वं वा संबन्धत्वम् (प० मा० पृ० ३८ ) । अथ वा समवायत्वं संबन्धप्रतियोग्यनुयोगिभिन्नत्वे सति संबन्धत्वम् । तेन प्रतियोग्यनुयोगित्वात्मकस्वरूपसंबन्धे नातिव्याप्तिः (राम ० १ पृ० ३९ ) ( ता० २० लो० ५४ ) । इह गवि गोत्वम् इत्यादिप्रत्ययविषयसंबन्धत्त्रम् समवायत्वम् (प० मा० पृ० ३८ ) । समवायस्तु समवायरहितः संबन्ध: ( सर्व ० सं० पृ० २१७ औ० ) । सर्वत्र समवायस्त्वेक एव नित्यश्च इति न्यायवैशेषिकसिद्धान्तः । अत्र एकत्वं च स्वाश्रयान्योन्याभावासमानाधिकरणपदार्थविभाजकोपाधिमत्त्वम् (प्र० च० ) । अत्रैकत्वसाधने प्रमाणभूतं सूत्रं च तत्त्वं भावेन (वै० ७।२।२८ ) इति । नित्यत्वे इत्यमनुमानम् । स चायं समवायः नित्यः । अकारणकत्वात् । भावानां हि समवायिकारणादुत्पत्तिनियमः । तदनुरुद्धे च निमित्तासमवायिनी इति । तथा च समवायस्य समवायिकारणकल्पने अनवस्थादिदोषप्रसङ्गः इति समवायस्य नित्यत्वम् (वै० उ० ७।२।२६ पृ० ३५० ) । अत्रेदं बोध्यम् । नैयायिकानां मते समवायत्वं न जाति: । तद्बाधकस्यासंबन्धस्य सत्त्वात् । यद्यपि समवायत्वजातिबाधको व्यक्त्यभेद एव तथापि प्राभाकरादिमते उत्पादविनाशशीला बहवः समवायाः । तन्मते असंबन्ध एव जातिबाधकः इति ज्ञेयम् (वै० उ० १|१| ३ ) | समवायो नाना अनित्यश्व इति प्राभाकरा नव्या चाहुः । प्रत्यक्षः समवायः इति नैयायिका आहुः । समवायस्य प्रत्यक्षत्वसाधकानुमानं च समवायो लौकिकप्रत्यक्षविषयः १२१ न्या० को ०
1
Jain Education International
For Personal & Private Use Only
९६१
www.jainelibrary.org