________________
न्यायकोशः। (प्रशस्त० १ पृ० २५) इति । स च अयुतसिद्धयोः संबन्धः ( त० भा० १)। स च यथा अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोश्च संबन्धः ( त० सं० ) ( प० मा० पृ० ३८ )। यथा घटकपालयोः संबन्धः समवायः । एवमन्यत्राप्यूह्यम् । तदुक्तम् घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः ॥ ( भा० ५० श्लो० ११) इति । अत्र भाष्यम् । अयुतसिद्धानामाधार्याधारभूतानां यः संबन्धः इहप्रत्ययहेतुः स समवायः। द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानाम् अकार्यकारणभूतानां वा अयुतसिद्धानामाधार्याधारभावेनावस्थितानाम् इहेदम् इति बुद्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्यत्वानामविष्वग्भावेनावस्थितानाम् स समवायाख्यः संबन्धः । कथम् । यथा इह कुण्डे दधि इति प्रत्ययः संबन्धे सति दृष्टः । तथा इह तन्तुषु पटः इह वीरणेषु कटः इह द्रव्ये च द्रव्यगुणकर्माणि इह द्रव्यगुणकर्मसु सत्ता इह द्रव्ये द्रव्यत्वम् इह गुणे गुणत्वम् इह कर्मणि कर्मत्वम् इह नित्यद्रव्येष्वन्त्या विशेषाः इति इहप्रत्ययदर्शनात् अस्त्येषां संबन्धः इति विज्ञायते। न चासौ संयोगः। संबन्धिनामयुतसिद्धत्वात् । अन्यतरकर्मादिनिमित्तस्याभावात् । विभागान्तत्वादर्शनात् । अधिकरणाधिकर्तव्ययोरेव च भावादिति । भाववल्लक्षणभेदात् भाववत्सर्वत्रैकः समवायः । स च द्रव्यादिभ्यः पदार्थान्तरम् । स च प्रमाणतः कारणानुपलब्धेर्नित्यः । तस्मात्स्वात्मवृत्तिः । अत एव चातीन्द्रियः । सत्तादीनामिव प्रत्यक्षेषु वृत्त्यभावात् । स्वात्मगतसंवेदनाभावाच्च । तस्मात् इहबुद्ध्यनुमेयः समवायः ( प्रश० पृ० ६७ )। समवायसत्त्वे प्रमाणं तु अनुमानम् । तच्च जात्यादिगोचरो विशिष्टव्यवहारः संबन्धनियतः । भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात् । सघटं भूतलम् इति व्यवहारवत् ( न्या० ली० पृ० ५४ ) इति । घटे घटत्वं रूपं च समवेतम् तन्तुषु पटः समवेतः इह कर्म समवेतम् इत्यनुगतसमवायाकारप्रतीत्या तत्सिद्धिः (न्या० म० १ पृ० ९)। वस्तुतस्तु स्वाश्रयसमवेतत्वसंबन्धेनावयवनीलादेरवयविनीलादौ हेतुत्वात्कारणतावच्छेदकसंबन्धघटकतया समवाय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org