________________
न्यायकोशः।
९५९ पृ० ३४१ ) (वै० वि० ) (भवा०)। अन्यत्सर्वं शक्ति संकेत इत्येतच्छन्दव्याख्याने द्रष्टव्यम् । २ नियमबन्धः । ३ शास्त्रम् । ४ कालः । ५ सिद्धान्तः । ६ शपथः । ७ आचारः। ८ अङ्गीकारः। ९ क्रियाकारकः । १० निर्देशः । ११ भाषा ( मेदि०)। १२ संपत् ।
१३ कालविज्ञानम् ( शब्दच०)। समर्थः-१ यत्किंचिदर्थकारी । यत्किचित्कार्यप्रयोजकः इति यावत् ।
२ शाब्दिकास्तु संगतार्थः । स च अन्वयान्वयिभावापन्नोर्थः इत्याहुः । ३ शक्तः । ४ हितश्च इति काव्यज्ञा आहुः ( अमरः ३।३।८६)। समर्थत्वं च सामर्थ्यम् । तच्च सामर्थ्यशब्दे दृश्यम् ।
१-१ ( लोडर्थः ) पराशक्यधर्मिकस्वशक्यत्वाध्यवसायः । यथा पर्वतमप्युत्पाटयानि समुद्रमपि शोषयाणि इत्यादी लोडर्थः । तथा च स्वेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वाध्यवसायवान् इत्येवं तत्रान्वयबोधः । अथ वा पर्वतमप्युत्पाटयानि समुद्रमपि शोषयाणि इत्यादौ निपातस्यैवापेर्धात्वान्वितं पराशक्यत्वमर्थः। तिङस्तु स्वशक्यताध्यवसायमात्रम् । अध्यवसायोवधारणम् ( श० प्र० श्लो० १०० टी० पृ० १४५ -१४६ )। २ इदमित्थमेव इति निश्चयहेतूपन्यासेन निश्चायकव्यापारविशेषः इति केचिदाहुः। ३ युक्तायुक्तत्वेन परीक्षणम्
( अमरः २ क्षत्रियव० श्लो० २५ टी०.)। समवहितत्वम्-एककालीनत्वम् (मू० म० १)। यथा घटसमवहितः
पटः इत्यादौ समवहितत्वशब्दार्थः। २ सहवृत्तित्वम् । यथा मण्यादिसमवहितेन वह्निना दाहों न जन्यते ( त० दी०) इत्यादौ समवहितत्वशब्दस्यार्थः । ३ सम्यगवधानयुक्तत्वम् इति साहित्यशास्त्रज्ञा आहुः । समवायः-१ ( पदार्थः ) इहेदमिति यतः कार्यकारणयोः स समवायः ( वै० ७।२।२६) । तदर्थश्च कार्यकारणयोरवयवावयविनोर्यतः संबन्धात् इहेदम् इति प्रत्ययः स समवायः । (वै० वि० ४।२।२६ )। अयुतसिद्धानामाधार्याधारभूतानां यः संबन्धः इहप्रत्ययहेतुः स समवायः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org