________________
९५८
न्यायकोशः। घटमानय इत्यादौ क्रियापदस्य द्वितीयान्तघटपदसमभिव्याहारः। [ग] साक्षात्परंपरया वा तत्पदप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वमिति केचिदाहुः । २ शेषशेषिवाचकपदयोः सहोच्चारणम् इति मीमांसका
आहुः । ३ साहित्यम् इति काव्यज्ञा आहुः । समभिव्याहृतत्वम्- १ एकवाक्यतापन्नत्वम् । यथा पदानां समभिव्याहृतत्वमाकाङ्क्षा इत्यादौ समभिव्याहृतत्वशब्दस्यार्थः। २ साहित्यम् । ३
सहोच्चरितत्वम् । ४ अव्यवहितत्वं च इत्यन्ये आहुः। .. समभिहारः-१ पौनःपुन्यम् । यथा क्रियासमभिहारेण विराध्यन्तं क्षमेत
कः ( माघ० २।४३ ) इत्यादौ समभिहारशब्दस्यार्थः । २ सातत्यम्
इति शाब्दिका आहुः । ३ भृशम् इति काव्यज्ञा आहुः । समम्-(अव्ययम् ) १ साहित्यम् । यथा समं रामेण लक्ष्मणः इत्यादौ ।
२ एकदा ( युगपत् ) इत्यर्थः । यथा सममेव समाक्रान्तं द्वयं द्विरद
गामिना ( रघु० ४।४ ) इत्यादौ। समयः-१ [क] अस्य शब्दस्येदमर्थजातमभिधेयम् इत्यभिधानाभिधेयनियमनियोगः ( शक्तिः )। तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति ( वात्स्या० २।१।५५ )। [ख] ईश्वरसंकेतः । अस्माच्छब्दादयमों बोद्धव्यः इत्याकारः। यथा सामयिकः शब्दादर्थप्रत्ययः (वै०७।२।२०) इत्यादौ समयशब्दस्यार्थः । यः शब्दो यस्मिन्नर्थे भगवता संकेतितः स तमर्थं प्रतिपादयति । तथा च शब्दार्थयोरीश्वरेच्छैव संबन्धः । स एव समयः । तदधीनः शब्दादर्थप्रत्ययः ( वै० उ० ७।२।२० )। मम्मटभट्टस्तु नाभिधा समयाभावात् ( काव्यप्र० २।२२) इत्यादिग्रन्थेनाभिधासमययोर्भेदमुररीचकार । अत्र नैयायिकैः साध्यसमो दोष उद्भाव्यते । मीमांसकमते तु नायं दोषः । अभिधासमययोस्तैर्भेदाङ्गीकारात् इति विज्ञेयम्। समयश्च जातिमात्रे। व्यक्तेराक्षेपत एवोपस्थितेः । इतितौतातिका आहुः। जातौ व्यक्तौ चोभयत्र शक्तिः। किं तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूपसती प्रयोजिका इति प्राभाकरा आहुः। समयः शक्तिरेव । व्यक्त्याकृतिजातयः पदार्थाः इति वृद्धा आहुः ( वै० उ० ७।२।२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org