________________
न्यायकोशः। प्राक्कालीनत्वम् । गोषु दुग्धासु गत इत्यादावतीतार्थककृत्स्थल उत्तरकालीनत्वं संबन्धतया भासत इति । एवम् पाथसि पीते तृषा शाम्यति इत्यादावतीतार्थककृत्समभिव्याहारात्कार्यकारणभावोपि संबन्धतया भासत इत्यादिकमूहनीयम् । अत्र सप्तम्यर्थे समानकालीनत्वे गोविशेषणकर्मताविशेषणस्य गोदोहनस्यान्वयः । इत्थं च तादृशगोदोहनसमानकालीनातीतगमनानुकूलकृतिमान् इत्यर्थः ( का० व्या० पृ० १२ )। अथ वा समभिव्याहृतदोहनादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं क्रियान्तरे संबन्धः इति (ग० व्यु० का० ७ पृ० ११७ )। द्वितीयं तु दैशिकसामानाधिकरण्यम् । यथा इदं द्रव्यं गुणकर्मान्यत्वे सति सत्त्वात् (ग० अवयवे ) इत्यादौ सतिसप्तम्यर्थः । अत्र सति इत्यनन्तरं सतः इत्यध्याहार्यम् । अन्यथा लक्षणीयक्रियाया अभावेनोक्तसूत्राविषयतया सप्तम्यनुपपत्तः। तथा च तत्र अस्धातोरथ आधारता । गुणान्यत्वाद्याधारतायाश्च सत्ताधारतायां तद्वन्निष्ठत्वं संबन्धतया भासत इति चिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाहः (ग० व्यु० का० ७ पृ० ११७ )। तथा चात्र गुणकर्मान्यत्वसमानाधिकरणसत्त्वात् इति शाब्दबोधः । एवं द्रव्यकर्मान्यत्वे सति सामान्यवान् गुणः इत्यादावपि
बोध्यम् ( म०प्र० पृ० ६-७)। सम्-(अव्ययम् ) १ सम्यगर्थः । २ प्रकर्षः। ३ संगतिः। ४ शोभनम्
(शब्दच० )। ५ समुच्चयः ( हेमच० )। समनियतत्वम्-व्याप्यत्वे सति व्यापकत्वम् (ग० अव० )। यथा लक्ष्यतावच्छेदकसमनियतो धर्मः असाधारणधर्मः इत्यादौ गोर्लक्षणस्य सानादिमत्त्वस्य लक्ष्यतावच्छेदकीभूतगोत्वसमनियतत्वम्। यथा वा
अभिधेयत्वस्य पदार्थत्वसमनियतत्वम् ( त० दी० १ )। समभिव्याहारः-१ [क] सहोच्चारणम् ( म० प्र० ४ पृ० ५६ )।
यथा यत्पदं यत्पदेन सह यादृशानुभवजनकं तत्पदस्य तत्पदसमभिव्याहारस्तादृशान्वयबोध आकाङ्क्षा इत्यादौ समभिव्याहारशब्दस्यार्थः (न्या० म० ४ पृ० २१)। [ख] पदानां पूर्वापरीभावः । यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org